This page has been fully proofread once and needs a second look.

लब्धाश्वासः कथमपि तदा लक्ष्मणस्याग्रजन्मा
सन्देशेन प्रणयमहता मैथिलीं जीवयिष्यन् ।
चक्रे तस्मै सरसिजदळैस्सोपचारां सपर्यां
कान्ताश्लेषादधिकसुभगः कामिनां दूतलाभः ॥ ४
 
कृत्वा तस्मिन्बहुमतिमसौ भूयसीमाञ्जनेया-
द्गाढोन्मादः प्रणयपदवीं प्राप वार्तानभिज्ञे ।
विश्लेषेण क्षुभितमनसां मेघशैलद्रुमादौ
याच्ञादैन्यं भवति किमुत क्वापि संवेदनार्हे ॥ ५
 
---
 
अनन्तरं क्षणाल्लब्धसंज्ञो रामः मैथिलीजीवनार्थं हंसं प्रेषयिष्यन् सरसिज-
दळैः तं पूजयामासेत्याह । लब्धेति ॥ तदा कथमपि अधिकप्रयासेन । लब्धा-
श्वासः प्राप्तसंज्ञः । लक्ष्मणस्य अग्रजन्मा ज्येष्ठः रामः प्रणयेन स्नेहेन महता मह-
त्त्वंप्राप्तेन । सन्देशेन वाचिकेन । मैथिली सीतां जीवयिष्यन् प्राणधारणवर्तीं
करिष्यन् । तस्मै राजहंसाय । सरसिजदळैः पद्मपर्णैः । सोपचारां उपचारसहितां
सपर्यां पूजां चक्रे कृतवान् । कामिनां कामुकानां दूतस्य लाभः कान्तायाः
प्रियायाः आश्लेषादालिङ्गनादपि अधिकं यथातथा सुभगः मनोहरः ॥ ४
 
कथं वार्तानभिज्ञे हंसे मारुतेरपि बहुमानं कृत्वा प्रणयपदवीमवापेत्याशङ्क्य
परिहरति । कृत्वेति ।। गाढः तीव्रः उन्मादश्चित्तविभ्रमो यस्य स तथोक्तः असौ
रामः । वार्तानभिज्ञे सन्देशज्ञानहीने तस्मिन् हंसे आञ्जनेयात् हनूमतोऽपि भूयसीं
बहुतरां । बहुमतिं बहुमानं | कृत्वा प्रणयस्य स्नेहस्य पदवीं मार्गं प्राप प्राप्तवान्
विश्लेषेण कान्तावियोगेन क्षुभितं अनवस्थितं मनः चित्तं येषान्तेषां मेघशैलद्रु-
मादौ अभ्रगिरिवृक्षादिसमीपे याच्ञैव अर्थनैव दैन्यं दीनत्वं भवति जायते संवेद-
नस्य सन्देशज्ञानस्य अर्हे योग्ये क्वापि कुत्रचिच्चैतन्यविशिष्टे किमुत याच्ञा
भवत्येव ॥ ५