हंससंदेशः /60
This page has been fully proofread once and needs a second look.
काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्य-
न्दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा ।
क्रीडाखेलं कमलसरसिं क्वापि कालोपयातं
राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ २
तस्मिन् सीतागतिमनुगते तद्दुकूलान्तमूर्तौ
तन्मञ्जीरप्रतिमनिनदे न्यस्तनिष्पन्ददृष्टिः ।
वीरश्चेतोविलयमगमत्तन्मयात्मा मुहूर्तं
शङ्के तीव्रं भवति समये शासनं मीनकेतोः ॥ ३
प्रातः काले सुग्रीवप्रमुखवानरसेनां प्रस्थापयिष्यन् जनकदुहितुः आश्वास-
नाय कुत्रचित् क्रीडासरसि हंसं दृष्ट्वानित्याह काल्यइति || काल्ये प्रातःकाले
कपिकुलपतेः सुग्रीवस्य सेनां वानरवाहिनीं तूर्णं शीघ्रं उद्योजयिष्यन् प्रस्थानो-
द्युक्तां करिष्यन् जनकदुहितुः सीतायाः दूरीभावात् विप्रकृष्टत्वात् दूयमानान्त-
रात्मा दुःखाक्रान्तचित्तः स रामः क्वापि कुत्रचित् कमलसरसि पद्मतटाके काले
शरत्काले उपयातं समीपमागतं क्रीडया लीलया खेलं सुभगं राकायां पूर्णिमायां
(स्थितस्य) चन्द्रस्य धुतेः कान्तेः सहचरं मित्रं तद्वच्छ्वेतम्यर्थः । राजहंस हंस-
विशेषं ददर्श दृष्टवान् ॥ २
ततः स रामो हंसं दृष्ट्वा स्वप्रियासारूप्यं पश्यन् मुमोहेत्याह । तस्मिन्निति ॥
सीतायाः गतिं गमनं अनुगते अनुसृतवति । तस्याः सीतायाः दुकूलं क्षौमं तस्याङ्क-
मूर्तौ चिह्नभूतशरीरवति । सीतावस्त्रस्य परितो हंसचित्तमस्तीति भावः । तस्याः
सीतायाः मञ्जीरप्रतिमः नूपुरसमानः निनदः ध्वनिः यस्य तस्मिन् । तस्मिन्
राजहंसे । न्यस्ते निहिते निष्पन्दे निश्चले दृष्टी नयने यस्य तथोक्तः । वीरः
शूरोऽपि । तन्मयात्मा तद्गतमनस्कः | चेतसः चित्तस्य विलयं मूर्छां । मुहूर्तं
घटिकाद्वयमल्पकालं वा । अगमत् प्राप्तवान् । तथाहि समये विरहवेळायां
मीनकेतोर्मन्मथस्य । शासनं निग्रहः । तीव्रं क्रूरं । भवतीति शङ्के मन्ये ॥ ३