This page has not been fully proofread.

.
 
म. १०. न. १०. सू. १२२]
 
अष्टमोऽष्टकः
 
७५५
 
( आश्व. श्री. ३.१० ) इति । चौलादिकर्मस्वप्येचा होमाथां । सूत्रितं च -'तेषां पुरस्ता चतल
आज्याहुतीर्जुहुयादन आयूंषि पवस इति तिसृभिः प्रजापते न स्वदेतान्यन्य इति च ( आश्व. गृ.
१. ४. ४) इति ॥
 
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव
यत्क।मास्ते जुहुमस्तौ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १० ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूत्र ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु॒ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ १० ॥
 
हे प्रजापते Vवत् स्वत्तोऽन्यः कश्चित् एतानि इदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि ॥
'शेश्छन्दसि बहुलम्' इति शेर्लोपः ॥ Vजातानि प्रथमविकारभाञ्जि Vता तानि सर्वाणि भूत-
जातानि न परि Vबभूव न परिगृह्णाति । न व्याप्नोति । स्वमेवैतानि परिगृह्य स्रष्टुं शक्नोपीति
भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च यत्कामाः यत्फलं कामयमानाः ते तुभ्यं जुहुमः
हवींषि प्रयच्छामः Vतत् फलं नः अस्माकम् अस्तु भवतु । तथा Vवयं च रयीणां धनानां पतयः
ईश्वराः स्याम भवेम ॥ 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् ॥
 
॥४॥
 
"
 
"
 
वसुं न ' इत्यष्टर्चं दशमं सूक्तं वसिष्ठपुत्रस्य चित्रमहस आर्षमान्नेयम् । आद्यापञ्चमी त्रिष्टुभौ
शिष्टा जगत्यः । तथा चानुक्रान्तं - ' वसुं नाष्टौ चित्रमहा वासिष्ठ आग्नेयं जागतमायां पञ्चमीं चर्ते
इति । प्रातरनुवाकाश्विनशस्त्रयोरामेये ऋतौ जागते छन्दसीदं सूक्तम् । सूत्रितं च – ' वसुं न चित्र-
महसमिति जागतम् ' ( आश्व. श्री. ४. १३) इति ॥
 
वसु॑ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विष॒ण्यम् ।
 
स रा॑सते शुरुषो॑ वि॒श्वधा॑यसो॒सो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्य॑म् ॥ १॥
वसु॑म् । न । चि॒त्रऽम॑ह॒सम् गृणी॒े । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षेण्यम् ।
सः । रा॒स॒ते । शुरुवः॑ः । वि॒श्वधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥ १॥
 
vथसुं न वासकं सूर्यमिव /चित्रमहसं चायनीयतेजस्कमनिं गृणीषे गृणे स्तौमि ॥ 'गृ
शब्दे '। क्रैयादिकः। पुरुषव्यत्ययः । प्वादिस्वानूस्वः ॥ यद्वा । चित्रमहसमिति प्रथमार्थे द्वितीया । न
इति संप्रत्यर्थे । संप्रति वासकमप्निमहं चित्रमहाः स्तौमि । कीदृशम् । Vवामं वननीयं शेवं सुखकरम्
Vअतिथिम् अतिथिवत्पूज्यं यद्वा हविर्वहनाय सततगामिनम् अद्विषेण्यं द्वेष्यरहितम् ॥ द्विषेः
'कृत्यार्थे तवैकेन्" इति केन्यप्रत्ययः । नञा 'बहुव्रीहौ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥ सः
अग्निः Vशुरुष: ' शोकस्य रोधयित्रीर्निवारथित्रीः विश्वधायसः क्षीरप्रदानादिना विश्वं सर्व जगद्धार-
यन्तीर्गाः सुवीर्यं शोभनवीर्य च रासते यजमानेभ्यो ददाति ॥ ' रा दाने ' । अस्माल्लेव्यडागमः ।
'सिब्बहुलम्" इति सिप् । व्यत्ययेनात्मनेपदम् । विश्वशब्दोपपदाद्दधातेः 'वहिहाधाम्भ्यः' इत्यसुन् ।
' णित्' इत्यनुवृत्ते: 'आतो युक्चिण्॰ ' ( पा. सू. ७.३.३३ ) इति युक् । मरुधादित्वात् पूर्वपदा-
न्सोदात्तत्वम्॥ कीदृशोऽग्निः । होता देवानामाहाता होमनिष्पादको वा गृहपतिः यजमानगृहाणा-
१. त-भ- ' द्विषेः ' नास्ति । २० गत४. ५-४२- शुरुधः शुचः ।