2022-09-10 13:10:26 by ambuda-bot
This page has not been fully proofread.
७५४
ऋग्वेदः
V
भूतजातं जनयन्तीः जनयन्त्यः तदर्थ गर्भ हिरण्मयाण्डस्थ गर्भभूतं प्रजापतिं दधानाः धारयन्त्यः
Vआपो Vह आप एव विश्वमायन् सर्वं जगत् व्यामुवन् 'यत्' यस्मात् ततः तस्माद्धेतोः देवानां
देवादीनां सर्वेषां प्राणिनाम् असुः प्राणभूतः एकः प्रजापतिः समवर्तत समजायत । पढा' । यत्
थं गर्भ दधाना आपो विश्वात्मनावस्थिताः ततो गर्भभूतास्प्रजापतेदेवादीनां प्राणात्मको वायुरजायत ।
अथवा । यन् । लिङ्गवचनयोर्व्यत्ययः । उक्तलक्षणा या आपो विश्वमावृत्य स्थिताः ? ततस्ताभ्योऽद्वचः
सकाशादेकोऽद्वितीयोऽसुः प्राणात्मकः प्रजापतिः समवर्तन निश्चक्राम । तस्मै कस्मै इत्यादि गतम् ॥
यश्चि॒दापो॑ महि॒ना प॒र्य॑प॑श्य॒दक्षं दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
"
[ अ. ८. अ. ७.
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ८ ॥
यः । चि॒त् । आप॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् ।
यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एक॑ः । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विवा॑ । वि॒िधेम॒ ॥ ८ ॥
।
व. ४
यज्ञं यज्ञोपल. क्षितं विकारजातं जनयन्तीः उत्पादयन्तीः तदर्थं दक्षं प्रपञ्चात्मना वर्धिष्णुं
प्रजापतिनात्मनि दधानाः धारयित्रीः ॥ दुधातेर्हेतौ शानच् । 'अभ्यस्तानामादिः' इत्यायुदात्तत्वम् ॥
ईदृशीः आपः । व्यत्ययेन प्रथमा । अपः प्रलयकालीनाः महिना महिन्ना । छान्दसो मलोपः ।
स्वमाहात्म्येन यश्चित् यश्च प्रजापतिः पर्यपश्यत् परितो दृष्टवान् यः च देवेष्वधि देवेषु मध्ये
देवः तेषामपीश्वरः सन् एकः अद्वितीयः आसीत् भवति ॥ अस्ते छान्दसो लङ्क । अस्तिसिचो-
वृक्ते ' ( पा. सू. ७. ३. ९६ ) इतीडागमः ॥ तस्मै कस्मै इत्यादि गतम् ॥
मा नौ हंसीजनि॒ता यः पृ॑थि॒व्या यो वा दिवं॑ स॒त्यधर्मा ज॒जानि॑ ।
यश्चा॒पश्च॒न्द्रा बृह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ९ ॥
।
मा। नः॒। हि॑मी॒ीत्। ज॒नि॒ता । यः । पृथि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जाने ।
यः । च॒ । अ॒पः । च॒न्द्राः । बृह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒िधेम॒ ॥ ९ ॥
● जनी
(
स प्रजापतिः नः अस्मान् मा हिंसीन् मा बाधताम् । यः पृथिव्याः भूमेः जनिता
जनयिता स्रष्टा ॥ ' जनिता मन्त्रे' इति णिलोपो निपात्यते । 'उदात्तयणो हल्पूर्वात्' इति पृथिवी-
शब्दाद्विभक्केरुदान्तःवम् ॥ यो Vवा यश्च सत्यधर्मा सत्यमवितथं धर्म जगतो धारणं यस्य स
तादृशः प्रजापतिः दिवम् अन्तरिक्षोपलक्षितान् सर्वान लोकान् जजान जनयामास ॥
प्रादुर्भावे ' । णिचि वृद्ध जनीज़ष्कसुरअः' इति मित्रात् मितां हूस्वः' इति
हूस्वस्वम् । ततो लिटि ' ' अमन्त्रे" ( पा. सू. ३.१.३५ ) इति निषेधादाम्प्रत्ययाभावे तिपो
जलि वृद्धौ 'लिति' इति प्रत्ययारपूर्वस्योदात्तत्वम् ॥ Vयश्च वृहतीः महतीः चन्द्राः आह्लादिनी:
अपः उदकानि जजान जनयामास । 'ऊडिदम्" इत्यादिना अपशब्दादुत्तरस्य शस उदात्तत्वम् ॥
तस्मै कस्मै इत्यादि गतम् ॥
इळादधाख्य इष्टययने प्राजापत्यस्य हविष: 'प्रजापते' इत्येषानुवाक्या । सूत्रितं च-
प्राजापत्य'इळादधः प्रजापते न स्वदेतान्यन्य: ' ( आश्व. श्रौ. २. १४ ) इति । केशनखकीटादिभिः
दुष्टानि हवींष्यनयैवाप्सु प्रक्षिपेत् । सूत्रितं च – 'अपोऽभ्यवहरेयुः प्रजापते न त्वदेतान्यन्यः '
१. त-भ१.४.७-' यत्... यद्वा ' नास्ति ।
२. तमु स्थितास्ताः ।