2022-09-10 13:10:25 by ambuda-bot
This page has not been fully proofread.
म. १०. अ. १०. सू. १२१ ]
अष्टमोऽष्टक:
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ ह॒कहा येन॒ स्व॑ः स्तभि॒तं येन॒ नाक॑ः ।
यो अ॒न्तरि॑ते॒ रज॑सो वि॒मानः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ५ ॥
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । इ॒ळ्हा । येन॑ । स्त्र र॒रिति॑ स्वः॑ः । स्त॒भि॒तम् । येन॑ । नार्कः ।
यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमान॑ः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धेम॒ ॥ ५ ॥
।
।
Vयेन प्रजापतिना द्यौः अन्तरिक्षम् Vउम्रा उद्भूर्ण विशेषागहनरूपं वा । पृथिवी भूमिः च
Veळहा येन स्थिरीकृता । स्वः स्वर्गश्च येन स्तभित स्तब्धं कृतम् । यथाधो न पतति तथोपरि
अवस्थापितमित्यर्थः ॥ ' ग्रसितस्कभितस्तभित" इति निपात्यते ॥ तथा नाकः आदित्यश्च प्येन
अन्तरिक्षे स्तभितः । Vयः च अन्तरिक्षे रजसः उदकस्य vविमानः निर्माता । तस्मै कस्मै
इत्यादि गतम् ॥
॥ ३ ॥
७५३
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षैतां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ६ ॥
यम् । क्रन्द॑सी॒ इति॑ । अव॑मा । त॒स्त॒मा॒ने इति॑ । अ॒भि । ऐश्च॒ताम् । मन॑सा । रेज॑माने॒ इति॑ ।
यत्र॑ । अधि॑ । सूर॑ः । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धेम॒ ॥ ६ ॥
।
क्रन्दितवान् रोदितवाननयोः प्रजापतिरिति क्रन्दसी द्यावापृथिव्यौ । श्रूयते हि — 'यदरो-
दीत्तदनयो रोदस्त्वम्' (तं. ब्रा. २. २. ९. ४ ) इति । ते अवसा रक्षणेन हेतुना लोकस्य रक्षणार्थ
Vतस्तभाने प्रजापतिना सृष्टें लब्धस्थैर्ये सत्यौ "यं प्रजापतिं मनसा बुद्धया अभ्यैक्षेताम् आवयो-
महत्वमनेन इत्यभ्यपश्येताम् ॥ ' ईक्ष दर्शने ' । लङि अडादित्वादाचुदात्तः । कीदृश्यों द्यावा-
पृथिव्यौ । रेजमाने राजमाने दीप्यमाने ॥ आकारस्य व्यत्ययेनैत्वम् । अदुपदेशालसार्वधातुकानु-
दात्तवे धातुस्वरः । यद्वा । लिटः कानच् । ' फणां च सप्तानाम्' (पा. सू. ६. ४. १२५ )
इत्येत्वाभ्यासलोपौ । 'छन्दस्युभयथा ' इति सार्वधातुकत्वाच्छप् । अत एव 'अभ्यस्तानामादिः
इत्यायुदात्तत्वम् ॥ यत्राधि यस्मिन्नाधारभूते प्रजापतौ सूरः सूर्य: Vउदितः उदयं प्राप्तः सन्
विभाति प्रकाशते ॥ उत्पूर्वांदेतेः कर्मणि निष्ठा । ' गतिरनन्तर : ' इति गतेः प्रकृतिस्वरस्वम् ॥ तस्मै
Vकस्मै इत्यादि सुज्ञानम् ॥
>
आपो॑ ह॒ य॑बृ॑ह॒तवि॑श्व॒माय॒न् गर्भ॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेक॒ः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ७ ॥
आप॑ः । ह॒ । यत् । बृह॒तीः । विश्व॑म् । आय॑न् । गम् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ।
तत॑ । दे॒वाना॑म् । सम्। अवर्तत॒ । असु॑ः । एक॑ः । कस्मै॑ । दे॒वाय॑ । ह॒विवा॑ । वि॒धेम ॥ ७ ॥
Vबृहती: बृहत्यो महत्यः ॥ जसि ' वा छन्दसि' इति पूर्वसवर्णदीर्घः । 'बृहन्महतोरुप-
संख्यानम् ' इति ङीप उदात्तत्वम् ॥ अग्निम् । उपलक्षणमेतत् । अग्न्युपलक्षितं सर्व वियदादि-
२. ग भ५ - स्तब्धे ।
३. त-भ- अजादित्वादानुदात्तः ।
१. ग-त१.२.३.६.८ मु- स्तंभितः ।
४. त-भ-अकारस्य ।
+ ४-४८