This page has been fully proofread once and needs a second look.

७५२
 
ऋग्वेदः
 
[ अ. ८. अ. ७. व. ३
 
यद्वा । अमृतम् । मरणं नास्त्यस्मिन्नित्यमृतं सुधा । बहुवीहीव्रीहौ 'नजोञो जरमरमित्रमृताः' इत्युत्तर-
पदाधुद्युदात्तस्त्वम् । तदपि [^v]यस्य प्रजापतेः छाया छायेव वर्ति भवति । [^v]मृत्युः यमश्च प्राणापहारी
छायेव भवति । तस्मै [^v]कस्मै '[^v]देवाय इत्यादि समानं दूपूर्वेण [^v]हविषा पुरोडाशात्मनेति तु विशेषः ॥
 
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।

य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒ःदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ३ ॥
 

 
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥ ३ ॥
 
[^v]यः हिरण्यगर्भः [^v]प्
राणतः । नि॒ऽम्पतः । म॒हि॒त्वा । एक॑ः । इत् । राज । जग॑तः । ब॒भूवः॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपद॑ः । चतु॑ःऽपदः । कस्मै । दे॒वाय॑ । ह॒विषा॑ । वि॒धेम॒ ॥ ३ ॥
 

 
Vयः हिरण्यगर्भः प्राणतः
प्रश्वसतः ?
 
6
 
"
 
[^१] ॥ ' अन प्राणने ' । आदादिकः । 'शतुरनुमः"०' इति
विभक्तेरुदात्तत्वम् ॥ निमितः अक्षिपक्ष्मचलनं कुर्वतः ॥ अत्रापि पूर्ववद्विभक्तिरुदात्ता ॥ [^v]जगतः
जङ्गमस्य प्राणिजातस्य [^v]महित्वा महत्त्वेन ॥ ' सुपां सुलुक्०' इति तृतीयाया आकारः ॥ माहात्म्येन
V[^v]एक V[^v]इत् अद्वितीय एव सन् राजा V[^v]बभूव ईश्वरीरो भवति ॥ भवतेणेंर्णलि 'लिति' (पा. सू. ६.
१. १९३ ) इति प्रत्ययात्पूर्वस्योदात्तध्त्वम् ॥ अस्य परिदृश्यमानस्य द्विपदः पादद्वययुक्तस्य
मनुष्यादेः चतुष्पदः गवाश्वादेश्च [^v]यः प्रजापतिः [^v]ईशे ईष्टे ॥ ' ईश ऐश्वर्ये' । आदादिकोऽनुदात्तेत् ।
' लोपस्त आत्मनेपदेपुषु' इति तलोपः । अनुदात्तेस्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्य ।
'उडिदम्"०' इतीदमो विभक्तिरुदात्ता । द्वौ पादौ यस्य स द्विपात् । 'संख्यासुपूर्वस्य' (पा. सू.
५. ४. १४० ) इति पादस्यान्थ्त्यलोनःपः समासान्तः । भसंज्ञायां ' पादः पत्' (पा. सू. ६.४.१३०)
इति पद्भावः । ' द्वित्रिभ्यां पाद्दन्' (पा.सू. ६. २. १९७ ) इत्येकदेशविकृतस्यानन्यत्वादुत्तरपदा-
न्तोदात्तस्त्म् । स्वरवर्जमेपैषैव चतुष्पद इत्यत्रापि प्रक्रिया । 'बहुधीव्रीहौ प्रकृस्त्या"०' इति पूर्वपदप्रकृति-
स्वरः । पूर्वपदस्य ' त्रः संख्याया: ' ( फि. सू. २.५ ) इत्याद्युदात्तत्वम् । ' इदुदुपधस्य चाप्रत्ययस्य'
इति विसर्जनीयस्य षत्वम् ॥ ईदृशो यः प्रजापतिस्तस्मै [^v]कस्मै इत्यादि सुबोधं [^v]हविषा हृदयाद्या-
त्मनेत्ययमत्र विशेषः ॥
 
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाद्दुः ।
हुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ ब॒ाबा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४ ॥

यस्य॑ । इ॒मे। हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः ।
यस्य॑ । इ॒माः । प्र॒ऽदिश॑ःशः॑ । यस्य॑ । ब॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धेधे॒म॒ ॥ ४ ॥
 

 
"

 
हिमा अस्मिन् सन्तीति हिमवान् । तेन[^२] बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते । यथा छत्रिणो
गच्छन्तीति । [^v]हिमवन्तः हिमवद्रुदुपलक्षिताः [^v]इमे दृश्यमानाः सर्वे पर्वता: V[^v]यस्य प्रजापतेः [^v]महित्वा
महत्त्वं माहात्म्यमैश्वर्यमिति [^v]आहुः । तेन सृष्टत्वात्तद्रूपेगाणावस्थानाद्वा । तथा V[^v]रसया । रसो जलम् ।
तद्वती रसा नदी ॥ अर्शआदित्वादच् ॥ जातावेकवचनम् । रसाभिनंर्नदीभिः [^v]सह [^v]समुद्रम् । पूर्ववदेक-
वचनम् । सर्वांवान् समुद्रान् [^v]यस्य महाभाग्यमिति [^v]आहुः कथयन्ति सृष्ट्यभिज्ञाः । V[^v]यस्य च [^v]इमाः
[^v]प्रदिशः प्राय्च्यारम्भा आग्नेय्याद्याः कोणदिश ईशितव्याः । तथा V[^v]बाहू । वचनव्यत्ययः । बाहवो
भुजाः । भुजवत्प्राधान्ययुक्ताः प्रदिशश्च [^v]यस्य स्वभूताः । तस्मै [^v]कस्मै इत्यादि समानं पूर्वेण ॥
 
[^]. भ७- श्वसतः । [^]. ग-भ- तेन च ।