This page has not been fully proofread.

७५२
 
ऋग्वेदः
 
[ अ. ८. अ. ७. व. ३
 
यद्वा । अमृतम् । मरणं नास्यस्मिन्नित्यमृतं सुधा । बहुवीही 'नजो जरमरमित्रमृताः' इत्युत्तर-
पदाधुदात्तस्वम् । तदपि यस्य प्रजापतेः छाया छायेव वर्ति भवति । मृत्युः यमश्च प्राणापहारी
छायेव भवति । तस्मै कस्मै 'देवाय इत्यादि समानं दूर्वेण हविषा पुरोडाशात्मनेति तु विशेषः ॥
 
यः प्रा॑ण॒तो नि॑मष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
 
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒ः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ३ ॥
 

 
यः । प्राणतः । नि॒ऽम्पतः । म॒हि॒त्वा । एक॑ः । इत् । राज । जग॑तः । ब॒भूवः॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपद॑ः । चतु॑ःऽपदः । कस्मै । दे॒वाय॑ । ह॒विषा॑ । वि॒धेम॒ ॥ ३ ॥
 

 
Vयः हिरण्यगर्भः प्राणतः प्रश्वसतः ?
 
6
 
"
 
अन प्राणने ' । आदादिकः । शतुरनुमः" इति
विभक्तेरुदात्तत्वम् ॥ निमिपतः अक्षिपक्षमचलनं कुर्वतः ॥ अत्रापि पूर्ववद्विभक्तिरुदात्ता ॥ जगतः
जङ्गमस्य प्राणिजातस्य महित्वा महत्वेन ॥ ' सुपां सुलु' इति तृतीयाया आकारः ॥ माहात्म्येन
Vएक Vइत् अद्वितीय एव सन् राजा Vबभूव ईश्वरी भवति ॥ भवतेणेंलि 'लिति' (पा. सू. ६.
१. १९३ ) इति प्रत्ययात्पूर्वस्योदात्तध्वम् ॥ अस्य परिदृश्यमानस्य द्विपदः पादद्वययुक्तस्य
मनुष्यादेः चतुष्पदः गवाश्वादेश्व यः प्रजापतिः ईशे ईष्टे ॥ ' ईश ऐश्वर्ये' । आदादिकोऽनुदात्तेत् ।
' लोपस्त आत्मनेपदेपु' इति तलोपः । अनुदात्तेस्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । अस्य ।
'उडिदम्" इतीदमो विभक्तिरुदात्ता । द्वौ पादौ यस्य स द्विपात् । 'संख्यासुपूर्वस्य' (पा. सू.
५. ४. १४० ) इति पादस्यान्थ्यलोनः समासान्तः । भसंज्ञायां ' पादः पत्' (पा. सू. ६.४.१३०)
इति पद्भावः । ' द्वित्रिभ्यां पाइन्' (पा.सू. ६. २. १९७ ) इत्येकदेशविकृतस्यानन्यत्वादुत्तरपदा-
न्तोदात्तस्त्रम् । स्वरवर्जमेपैव चतुष्पद इत्यत्रापि प्रक्रिया । 'बहुधीहौ प्रकृस्या" इति पूर्वपदप्रकृति-
स्वरः । पूर्वपदस्य ' त्रः संख्याया: ' ( फि. सू. २.५ ) इत्यायुदात्तत्वम् । ' इदुदुपधस्य चाप्रत्ययस्य
इति विसर्जनीयस्य षत्वम् ॥ ईडशो यः प्रजापतिस्तस्मै कस्मै इत्यादि सुबोधं हविषा हृदयाद्या-
त्मनेत्ययमत्र विशेषः ॥
 
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाद्दुः ।
 
यस्ये॒माः प्र॒दिशो॒ यस्य॑ ब॒ाहू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४ ॥
यस्य॑ । इ॒मे। हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः ।
यस्य॑ । इ॒माः । प्र॒ऽदिश॑ः । यस्य॑ । ब॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धेम॒ ॥ ४ ॥
 

 
"
 
हिमा अस्मिन् सन्तीति हिमवान् । तेन बहुवचनान्तेन सर्वे पर्वता लक्ष्यन्ते । यथा छत्रिणो
गच्छन्तीति । हिमवन्तः हिमवद्रुपलक्षिताः इमे दृश्यमानाः सर्वे पर्वता: Vयस्य प्रजापतेः महित्वा
महत्वं माहात्म्यमैश्वर्यमिति आहुः । तेन सृष्टत्वात्तद्रूपेगावस्थानाद्वा । तथा Vरसया । रसो जलम् ।
तद्वती रसा नदी ॥ अर्शआदित्वादच् ॥ जातावेकवचनम् । रसाभिनंदीभिः सह समुद्रम् । पूर्ववदेक-
वचनम् । सर्वांन् समुद्रान् यस्य महाभाग्यमिति आहुः कथयन्ति सृष्टयभिज्ञाः । Vयस्य च इमाः
प्रदिशः प्राय्यारम्भा आग्नेय्यायाः कोणदिश ईशितव्याः । तथा Vबाहू । वचनव्यत्ययः । बाहवो
भुजाः । भुजवत्प्राधान्ययुक्ताः प्रदिशश्च यस्य स्वभूताः । तस्मै कस्मै इत्यादि समान पूर्वेण ॥
 
१. भ७- श्वसतः । २. ग-भ- तेन च ।