2022-08-26 15:53:36 by Aditya_Dwivedi
This page has not been fully proofread.
म. १०. अ. १०. सू. १२१]
अष्टमोऽष्टकः
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताये॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १ ॥
हि॒र॒ण्य॒ऽग॒र्भः । सग् । अवर्तत । अमे॑ । भू॒तस्य॑ । जा॒तः । पति॑ । एक॑ । आ॒सी॒त् ।
सः । दाधार । पृथि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विवा॑ । विधेम ॥१॥
vहिरण्यगर्भः हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः । तथा च तैत्तिरीयकं—
' प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपवाय ' ( तै. सं. ५. ५. १. २ ) इनि । यद्वा हिरण्मयोऽण्डो
गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । अग्रे प्रपञ्चोत्पतेः प्राक् समवर्तत ।
मायाध्यक्षात् सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधि-
भूतानां वियदादीनां ब्रह्मण उत्पनेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च जातः जातमात्र एव
Vएक: अद्वितीयः सन् Vभूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः पतिः ईश्वरः आसीत् ।
न केवलं पतिरासीदेव अपि तर्हि सः हिरण्यगर्भः पृथिवीं विस्तीणां द्यां दिनम् Vउत अपि च
इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम । अन्तरिक्षं दिवं
भूमिं च Vदाधार धारयति ॥ ' छन्दसि लुङ्ललिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यास-
दीर्घः ॥ Vकस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्त्र रूपत्वात् प्रजापतौ वर्तते । यद्वा । मृष्टयर्थं कामयत इति
कः । कमेर्डप्रत्ययः। यद्वा । कं सुखम् । तद्रूपस्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं
महत्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीकः स्यामिति
तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराळ्यायते । 'इन्द्रो वै वृत्रं हत्या सर्वा विजिती-
र्विजियाब्रवीत् ' (ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्व-
नामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम् । 'सावेकाचः' इति प्राप्तस्य
'न गोश्वन्साववर्णं" इति प्रतिषेधः । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानस्वाञ्च्चतुर्थी । कं
प्रजापति देवाय देवं दानादिगुगयुक्तं हविवा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन' पुरोडाशेन
वा विधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषु॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २ ॥
यः । आ॒त्म॒ऽदाः । व॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशप॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विवा॑। वि॒धेम॒ ॥ २ ॥
।
।
'आतो
"
Vयः प्रजापतिः Vआत्मदाः आत्मनां दाता । आत्मानो हि सर्वे तस्मात् परमात्मन उत्पद्यन्ते ।
यथाप्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तत् । यद्वा आत्मनां शोधयिता । ' दैप् शोधने' ।
मनिन्" इति विच् । Vबलदाः वलस्य व दाता शोधयिता वा । यस्य च प्रशिषं प्रकृटुं शासन-
माज्ञां विश्वे सर्वे प्राणिनः Vउपासते प्रार्थयन्ते सेवन्ते वा । 'शासु अनुशिष्टौ' । शास इत्
( पा. सू. ६.४.३४ ) इत्युपधाया इत्वम् । 'शासिवसिघसीनां च' इति पत्वम् । कृदुत्तरपदप्रकृतिस्वर-
त्वम् । आसेरनुदात्तेरवालसार्वधातुकानुदात्तत्वे धातुस्वरः । ' तिङि चोदात्तवति ' इति गतिरनुदात्ता ।
तथा देवाः अपि Vयस्य प्रशासनमुपासते । अपि च अमृतम् अमृतत्वम् । भावप्रधानो निर्देशः ।
१. त४. ५ - कपालाख्येन । २. त१.२.३.६.७.८-भ-' आत्मदाः ' नास्ति ।