This page has been fully proofread twice.

अष्टमोऽष्टकः
 
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १ ॥
 
हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् ।
सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥१॥
 
[^v]हिरण्यगर्भः हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः । तथा च तैत्तिरीयकं
' प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय ' ( तै. सं. ५. ५. १. २ ) इति । यद्वा हिरण्मयोऽण्डो
गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । [^v]अग्रे प्रपञ्चोत्पत्तेः प्राक् [^v]समवर्तत ।
मायाध्यक्षात् सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधि-
भूतानां वियदादीनां ब्रह्मण उत्पत्तेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च v[^v]जातः जातमात्र एव
v[^v]एकः अद्वितीयः सन् v[^v]भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः v[^v]पतिः ईश्वरः v[^v]आसीत् ।
न केवलं पतिरासीदेव अपि तर्हि v[^v]सः हिरण्यगर्भः v[^v]पृथिवीं विस्तीर्णां [^v]द्यां दिम् v[^v]उत अपि च
v[^v]इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम । अन्तरिक्षं दिवं
भूमिं च v[^v]दाधार धारयति ॥ ' छन्दसि लुङ्ललिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यास-
दीर्घः ॥ v[^v]कस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात् प्रजापतौ वर्तते । यद्वा । मृसृष्ट्यर्थं कामयत इति
कः । कमेर्डप्रत्ययः । यद्वा । कं सुखम् । तद्रूपत्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं
महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीदं प्ब्रवीष्यहं कः स्यामिति
तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराख्यायते । 'इन्द्रो वै वृत्रं <flag></flag>हत्यावा सर्वा विजिती-
र्विजित्याब्रवीत् ' (ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्व-
नामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम् । 'सावेकाचः॰' इति प्राप्तस्य
'न गोश्वन्साववर्णं॰' इति प्रतिषेधः । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी । कं
प्रजापतिं v[^v]देवाय देवं दानादिगुयुक्तं v[^v]हविवाषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन <flag></flag>[^१] पुरोडाशेन
वा v[^v]विधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥
 
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २ ॥
 
यः । आ॒त्म॒ऽदाः । व॒ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिषेष॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषोषा॑। वि॒धेधे॒म॒ ॥ २ ॥
 
v[^v]यः प्रजापतिः v[^v]आत्मदाः<flag></flag>[^२] आत्मनां दाता । आत्मानो हि सर्वे तस्मात् परमात्मन उत्पद्यन्ते ।
यथाप्ग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते त<error></error>द्वत् । यद्वा आत्मनां शोधयिता । ' दैप् शोधने' । 'आतो
मनिन्॰' इति विच् । V[^v]बलदाः वलस्य दाता शोधयिता वा । v[^v]यस्य च v[^v]प्रशिषं प्रकृटं शासन-
माज्ञां v[^v]विश्वे सर्वे प्राणिनः V[^v]उपासते प्रार्थयन्ते सेवन्ते वा । 'शासु अनुशिष्टौ' । 'शास इत्॰ '
( पा. सू. ६.४.३४ ) इत्युपधाया इत्वम् । 'शासिवसिघसीनां च' इति त्वम् । कृदुत्तरपदप्रकृतिस्वर-
त्वम् । आसेरनुदात्तेत्त्वाल्ल​सार्वधातुकानुदात्तत्वे धातुस्वरः । ' तिङि चोदात्तवति ' इति गतिरनुदात्ता ।
तथा v[^v]देवाः अपि V[^v]यस्य प्रशासनमुपासते । अपि च v[^v]अमृतम् अमृतत्वम् । भावप्रधानो निर्देशः ।
 
[^]. त४. ५ - 1॰कपालाख्येन । [^1]. त१.२.३.६.७.८-भ-' आत्मदाः ' नास्ति ।
 
"