This page has been fully proofread once and needs a second look.

म. १०. अ. १०. सू. १२१]
 
अष्टमोऽष्टकः
 
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताये॑ग्रै भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ १ ॥

हि॒र॒ण्य॒ऽग॒र्भः । सग् । अ॒व॒र्त॒त॒ । वर्तत । अमे॑ग्रै । भू॒तस्य॑ । जा॒तः । पति॑: । एक॑: । आ॒सी॒त् ।
सः । दाधारदा॒धा॒र॒ । पृथि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒वि<error></error>वा॑ । विधेम ॥१॥
 
vहिरण्यगर्भः हिरण्मयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः । तथा च तैत्तिरीयकं—

' प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय ' ( तै. सं. ५. ५. १. २ ) इनि । यद्वा हिरण्मयोऽण्डो
गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते । vअग्रे प्रपञ्चोत्पत्तेः प्राक् vसमवर्तत ।
मायाध्यक्षात् सिसृक्षोः परमात्मनः समजायत । यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधि-
भूतानां वियदादीनां ब्रह्मण उत्पनेत्तेस्तदुपहितोऽप्युत्पन्न इत्युच्यते । स च vजातः जातमात्र एव
Vvएक: अद्वितीयः सन् Vvभूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः vपतिः ईश्वरः vआसीत् ।
न केवलं पतिरासीदेव अपि तर्हि vसः हिरण्यगर्भः vपृथिवीं विस्तीणां द्यां दिनम् Vvउत अपि च
vइमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम् । यद्वा पृथिवीत्यन्तरिक्षनाम । अन्तरिक्षं दिवं
भूमिं च Vvदाधार धारयति ॥ ' छन्दसि लुङ्ललिटः' इति सार्वकालिको लिट् । तुजादित्वादभ्यास-
दीर्घः ॥ Vvकस्मै । अत्र किंशब्दोऽनिर्ज्ञातस्त्र रूपत्वात् प्रजापतौ वर्तते । यद्वा । मृष्टयर्थं कामयत इति
कः । कमेर्डप्रत्ययः। यद्वा । कं सुखम् । तद्रूपस्त्वात् क इत्युच्यते । अथवा इन्द्रेण पृष्टः प्रजापतिर्मदीयं
महत्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान् । स इन्द्रः प्रत्यूचे यदीदं प्रवीष्यहं कः स्यामिति
तदेव त्वं भवेति । अतः कारणात् क इति प्रजापतिराळ्ख्यायते । 'इन्द्रो वै वृत्रं <flag></flag>हत्या सर्वा विजिती-
र्विजित्याब्रवीत् ' (ऐ. ब्रा. ३.२१ ) इत्यादिकं ब्राह्मणमत्रानुसंधेयम् ॥ यदासौ किंशब्दस्तदा सर्व-
नामत्वात् स्मैभावः सिद्धः । यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम् । 'सावेकाचः' इति प्राप्तस्य
'न गोश्वन्साववर्णं"॰' इति प्रतिषेधः । 'क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानस्वाञ्त्वाच्चतुर्थी । कं
प्रजापति तिं vदेवाय देवं दानादिगुगयुक्तं vहविवा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन' <flag></flag>पुरोडाशेन
वा vविधेम वयमृत्विजः परिचरेम । विधतिः परिचरणकर्मा ॥
 
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषु॒षं॒ यस्य॑ दे॒वाः ।

यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २ ॥

यः । आ॒त्म॒ऽदाः । व॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशप॑शिषेम् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विवा॑षो। वि॒धेम॒ ॥ २ ॥
 

 

 
'
vयः प्रजापतिः vतो
 
"
 
Vयः प्रजापतिः Vआ
त्मदाः<flag></flag> आत्मनां दाता । आत्मानो हि सर्वे तस्मात् परमात्मन उत्पद्यन्ते ।
यथाप्नेः सकाशाद्विस्फुलिङ्गा जायन्ते त<error></error>त् । यद्वा आत्मनां शोधयिता । ' दैप् शोधने' । 'आतो
मनिन्"॰' इति विच् । Vबलदाः वलस्य व दाता शोधयिता वा । vयस्य च vप्रशिषं प्रकृटुंटं शासन-
माज्ञां vविश्वे सर्वे प्राणिनः Vउपासते प्रार्थयन्ते सेवन्ते वा । 'शासु अनुशिष्टौ' । शास इत्॰ '
( पा. सू. ६.४.३४ ) इत्युपधाया इत्वम् । 'शासिवसिघसीनां च' इति पत्वम् । कृदुत्तरपदप्रकृतिस्वर-
त्वम् । आसेरनुदात्तेरवाल्सार्वधातुकानुदात्तत्वे धातुस्वरः । ' तिङि चोदात्तवति ' इति गतिरनुदात्ता ।
तथा vदेवाः अपि Vयस्य प्रशासनमुपासते । अपि च vअमृतम् अमृतत्वम् । भावप्रधानो निर्देशः ।

१. त४. ५ - कपालाख्येन । २. त१.२.३.६.७.८-भ-' आत्मदाः ' नास्ति ।
 
"