This page has not been fully proofread.

42
 
A Handbook of Classical Sanskrit Rhetoric
 
may be reborn in her lover's land to meet him there. But the inner
meaning suggests that it would not be possible for her to stay with-
out her lover.
 
Definitions
 
प्रतिषेधोत्त्किराक्षेपः क. २.१२०
 
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
 
आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ॥ भा. का. २.६८
प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
 
आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥
उपमानाक्षेपश्चाक्षेपः । का. सू. ४.३.२७
 
वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य ।
अन्यत्तथात्वसिद्ध्यै यत्र ब्रूयात्स आक्षेपः ॥ रु. का. ८.८६
निषेधच्छाययाक्षेपः कान्तिं प्रथयितुं पराम् ।
 
आक्षेप इति स ज्ञेयः प्रस्तुतस्यैव वस्तुनः ॥ व. ३.५५
विधिनाथ निषेधेन प्रतिषेधोक्तिरत्र या ।
 
अ. सं. २
 
शुद्धा मिश्रा च साक्षेपः ... ॥
 
क्रियासूत्तिष्ठमानस्य वारणं कारणेन यत् ।
 
उक्तया युक्त्या च रोधो य आक्षेपः सोऽयमुच्यते ॥ स. ४.३४, ६५
 
विधिनिषेधाभ्यां प्रतिषेधोत्त्किराक्षेपः । शृ. १०
 
निषेधो वत्कुमिष्टस्य यो विशेषाभिधित्सया ।
 
वक्ष्यमाणोत्त्कविषयः स आक्षेपः ॥ का. प्र. १०.१६१
 
...
 
Digitized by
 
उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्यर्थं निषेधाभास आक्षेपः । अ. स. ३६
उक्तिर्यत्र प्रतीतिर्वा प्रतिषेधस्य जायते ।
 
आचक्षते तमाक्षेपालंकारं विबुधा यथा ॥ वा. ४/७४
 
विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः । हे. का. ६.११
 
आक्षेपस्तु प्रयुक्त्कस्य प्रतिषेधो विचारणात् । च. ५.७०
 
कमपि विशेषं वत्त्युं प्रकृतस्योक्तस्य वक्ष्यमाणस्य यः प्रतिषेधाभासः कथितः
 
सोऽयं द्विधाक्षेपः ॥ ए. ८.३१
 
विशेषवोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् ।
 
निषेधाभासकथनमाक्षेपः स उदाहृतः ॥ प्र. य. ८
 
वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ।
 
निषेधाभास आक्षेपो वक्ष्यमाणोक्तयो द्विधा ।
 
अनिष्टस्य तथार्थस्य विध्याभासः परो मतः । सा. १०.६४, ६५
 
Google
 
Original from
UNIVERSITY OF MICHIGAN