This page has been fully proofread once and needs a second look.

may be reborn in her lover's land to meet him there. But the inner
meaning suggests that it would not be possible for her to stay with-
out her lover.
 
Definitions
 
प्रतिषेधोत्त्किराक्षेपः क. २.१२०

प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति द्विविधं यथा ॥ भा. का. २.६८

प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ।
आक्षेप इति तं सन्तः शंसन्ति कवयः सदा ॥ अ. सं. २

उपमानाक्षेपश्चाक्षेपः । का. सू. ४.३.२७

वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य ।
अन्यत्तथात्वसिद्ध्यै यत्र ब्रूयात्स आक्षेपः ॥ रु. का. ८.८६

निषेधच्छाययाक्षेपः कान्तिं प्रथयितुं पराम् ।
आक्षेप इति स ज्ञेयः प्रस्तुतस्यैव वस्तुनः ॥ व. ३.५५

विधिनाथ निषेधेन प्रतिषेधोक्तिरत्र या ।
शुद्धा मिश्रा च साक्षेपः ... ॥

क्रियासूत्तिष्ठमानस्य वारणं कारणेन यत् ।
उक्त्या युक्त्या च रोधो य आक्षेपः सोऽयमुच्यते ॥ स. ४.३४, ६५

विधिनिषेधाभ्यां प्रतिषेधोत्त्किराक्षेपः । शृ. १०

निषेधो वत्कुमिष्टस्य यो विशेषाभिधित्सया ।
वक्ष्यमाणोत्त्कविषयः स आक्षेपः ॥ का. प्र. १०.१६१

उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्यर्थं निषेधाभास आक्षेपः । अ. स. ३६

उक्तिर्यत्र प्रतीतिर्वा प्रतिषेधस्य जायते ।
आचक्षते तमाक्षेपालंकारं विबुधा यथा ॥ वा. ४।७४

विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः । हे. का. ६.११

आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् । च. ५.७०

कमपि विशेषं वक्तुं प्रकृतस्योक्तस्य वक्ष्यमाणस्य यः प्रतिषेधाभासः कथितः
सोऽयं द्विधाक्षेपः ॥ ए. ८.३१

विशेषवोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् ।
निषेधाभासकथनमाक्षेपः स उदाहृतः ॥ प्र. य. ८

वस्तुनो वक्तुमिष्टस्य विशेषप्रतिपत्तये ।

निषेधाभास आक्षेपो वक्ष्यमाणोक्तयोर्द्विधा ।

अनिष्टस्य तथार्थस्य विध्याभासः परो मतः । सा. १०.६४, ६५