2023-02-15 09:59:06 by ambuda-bot
This page has not been fully proofread.
32
A Handbook of Classical Sanskrit Rhetoric
वाक्यार्थान्तरविन्यासो मुख्यतात्पर्यसाम्यतः
ज्ञेयः सोऽर्थान्तरन्यासः । व. १.५४
ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन ।
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ स. ४.६७
वस्तूपन्यस्य तत्साधनसमर्थस्य वस्तुनोऽन्यस्य न्यसनमर्थान्तरन्यासः। शृ. १०
सामान्यं वा विशेषो वा तदन्येन समर्थ्यते ।
यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ का. प्र. १०.१३५
सामान्यविशेषकार्यकारणभावाभ्याम्
।
निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः । अ. स. ३६
उक्तसिद्ध्यर्थमन्यार्थन्यासो व्याप्तिपुरः सरः ।
कथ्यतेऽर्थान्तरन्यासः ॥ वा ४६२
विशेषस्य सामान्येन साधर्म्यवैघर्माभ्यां समर्थनमर्थान्तरन्यासः । है. का. ६.१३
भवेदर्थान्तरन्यासोऽनुषक्तार्थान्तराभिधा। च. ५.६६
सामान्येन विशेष: सामान्यं वा यदा विशेषेण
कथितः समर्थ्यतेऽर्थो भवति तदर्थान्तरन्यासः ॥ ए. ८.२८
कार्यकारणसामान्यविशेषाणां परस्परम् ।
समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः ॥ प्र. ८
सामान्यं वा विशेषण विशेषस्तेन वा यदि ।
कार्य च कारणेनेदं कार्येण च समर्थ्यते ।
साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥ सा. १०.६१
विशेषस्य सामान्येन समर्थनमर्थान्तरन्यासः ॥ वा. का. ३
उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः । कु. १२२
यस्मिन् विशेष: सामान्यं समर्थ्येत परेण यत् ।
साधर्म्यादथ वैधर्म्यात स न्यासोऽर्थान्तरस्य हि ॥ अ. कौ. ८.२३४
सामान्येन विशेषस्य, विशेषेण सामान्यस्य वा यत् समर्थनं तदर्थान्तरन्यासः । र. २
यदि सामान्यविशेषौ समर्थ्येते विशेषसामान्ये ।
साधर्म्याद् वैधर्म्यादपि वा सोऽर्थान्तरन्यासः ॥ अ. कौ. २३८
अर्थापत्ति: Arthāpattih: Presumption:
artha āpatti (ā √pad ti <ktin) literally means an inference from circum-
stances, presumption, implication etc. It is a figure in which a relevant
assertion suggests an inference not actually connected with the
subject in hand, or vice versa.
Google
Digitized by
Original from
UNIVERSITY OF MICHIGAN