This page has been fully proofread once and needs a second look.

ii) based on entire meaning (artha anuprāsa) :
चन्दनं खलु गोबिन्दचरणद्वन्द्ववन्दयम् ।

candanaṃ khalu govinda-caraṇa-dvandva-vandayam.

iii) polished alliteration (cheka anuprāsa) :
अयमेति मन्दमन्दं कावेरीवारी-पावन: पवनः ।

ayam eti manda-mandaṃ kāverī-varī-pāvanaḥ pavanaḥ.

iv) based on repetitive words (nāma dvirukti) :
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।

śaile śaile na māṇikyaṃ mauktikaṃ na gaje gaje.

v) based on syllables having same place of articulation
(śruti anuprāsa) :
स्थिताः क्षणं पक्ष्मसु ताडिताधराः
पयोधरोत्सेधनिपात-चूर्णिताः ।

sthitāḥ kṣaṇaṃ paksmasu tāḍitādharāḥ
payodharotsedha-nipāta-cūrnitāḥ.

vi) based on style (Vitti anuprāsa) :
शिञ्जान-मञ्जु-मञ्जीराश् चारुकांचनकांचयः ।
śiñjāna-mañju-mañjīrāś cāru-kāñcana-kañcayaḥ
 
Definitions
 
एकैकस्य तु वर्णस्य विन्यासो यः पुनः पुनः ।
अर्थगत्या तु संख्यातमनुप्रासं पुरातनैः ॥ वि. ३.१७।१

सरूपवर्णविन्यासमनुप्रासं प्रचक्षते । भा. का. २.५

सरूपव्यञ्जनन्यासम् ..... अनुप्रासमुशन्ति कवयः । अ. सं. १.७

शेष: सरूपोऽनुप्रासः । का. सू. ४.१.८

एकद्वित्रान्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः ।

आवर्त्यते निरन्तरमथवा यदसावनुप्रासः । रु. का. २.१८

वर्णानामतिदूरान्तरमावृत्तिरनुप्रासः । शृ. १०

आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता ।
अलंकारः स विद्वद्भिरनुप्रासः प्रदर्श्यते ॥ स.

वर्णसाम्यमनुप्रासः । का: प्रा. ६.२०४, अ. शे. ४.१

व्यञ्जनस्यावृत्तिरनुप्रासः । हे. का. ५.१

अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । सा. १०.३

अनुप्रास्यत इत्यर्थेऽनुप्रासो वर्णसाम्यतः । अ. कौ. ७.१६६