This page has been fully proofread once and needs a second look.

अप्रस्तुतोऽपि विच्छित्तिं प्रस्तुतस्यावतारयन् ।
पदार्थो वाथ वाक्यार्थः प्राप्यते वर्णनीयताम् ॥
यत्र तत्साम्यमाश्रित्य संबन्धान्तरमेव वा ।
अप्रस्तुतप्रशंसेति कथितासावलंकृतिः ॥
यस्यामतिशः कोऽपि विच्छित्त्या प्रतिपाद्यते ।
वर्णनीयस्य धर्माणां तद्विदाह्लाददायिनाम् ॥ व ३.२२५--२६.३३
विवक्षा या विशेषस्य लोकसीमातिवर्तिनी ।
असावतिशयोक्तिः ॥ स. ४१८१
विशेषविवक्षया लोकवृत्तानतिक्रमेणात्युक्तेरभिधानम् अतिशयः शृ. १०
निगीर्याध्यवसानं तु प्रकृतस्य च कल्पनम्
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः
विज्ञेयातिशयोक्तिः सा । का. प्र. १०.१५३
कार्यकारणयोः समकालत्वे पौवपिर्यविपर्यये चातिशयोक्तिः । अ. स. ४४
अध्यवसितप्राधान्ये त्वतिशयोक्तिः । अ. स. २३
वस्तुनो वक्तुमुत्कर्षमसम्भाव्यं यद्युच्यते ।
वदन्त्यतिशयाख्यं तमलंकारं बुधा यथा ॥ वा. ४.१०२
विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्ति:तिः । है. का. ६.२०
आक्रमातिशयोक्तिश्चेद् युगपत्कार्यकारणे ।
अत्यन्तातिशयोक्तिस्तत्पौर्वापर्यव्यतिकमे ।
भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते ।
रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम्। च. ५.४२-४४
अघ्यवसितिसिद्धत्वं प्रकृतस्यान्यत्वकल्पनं यद्वा ।
संबन्धासंबन्धौ तद्वत्यासे भवेदतिशयोक्तिः ॥ ए. ८.२३
अनयोः समसमयत्वे पौर्वापर्यस्य वा विपर्यासे ।
कार्याशुभावगमिका द्विविधातिशयोक्तिराख्याता ॥ ए. ८.३७
विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता ॥ प्र.य. ८
कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिः प्र. य. ८
सिध्यत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते । सा. १०.४६ ।
अत्युक्तिरतिशयोक्तिः । वा. का. ७
विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता । चि.
रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः । कु. १ । ३३६
निगीर्णस्योपमानेनोपमेयस्य निरूपणम् ।