This page has been fully proofread once and needs a second look.

क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् ।
कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता ॥ का. प्र. १६८.१११
सूक्ष्मवस्तुस्वभावस्य यथावद्वर्णनं स्वभावोक्तिः । अ. स. ७९
स्वभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम् ॥ च. ५.१०७
वस्तुस्वभाव उच्चैर्य:यः स्यात् सूक्ष्मो यथावदेकस्य ।
यद् वा वर्णनमेषा कथिता कविभिः स्वभावोक्तिः ॥ ए. ८.७२
स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् । प्र. ८.१२८
स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् । सा. १०.९२
यस्य वस्तुनो यत्स्वभावता तदाख्यानं स्वभावः । अ. शे. ३७
स्वभावोक्तिः स्वभावस्य जात्यादिकस्य वर्णनम् । कु. १६०