This page has been fully proofread once and needs a second look.

अव्यक्ता क्षीरजलवत् पांशुपानीयवच्च सा ।
व्यक्ताव्यक्ता च संसृष्टिर्नरसिंहवदिष्यते ।
चित्रवर्णवदन्यस्मिन् नानालंकारसंकरे ॥ स. ४.८७-८९
राजन्ति यत्रालंकारा अन्योन्यान्वितवृत्तयः ।
यथा पदार्था वाक्यार्थे संसृष्टि:टिः साभिधीयते ॥ व. ३.६०
सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ का. प्रा. १०.२०३
एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टि:टिः । अ. स. ८४
एषां तिलतण्डुलवन्मिश्रत्वेनाभ्यधायि संसृष्टिः। ए. ७६
तिलतण्डुलसंश्लेषन्यायाद् यत्र परस्परम् ।
संश्लिष्येयुरलंकाराः सा संसृष्टिर्निगद्यते ॥ प्र. य. ४७२
मिथोनपक्षमेतेषां स्थितिः संसृष्टिरुच्यते । सा. १०.९८
संसृष्टिरप्यसौ क्रियाशब्दार्थोभयभूः सा । अ. कौ. ८.३१५
संसृष्टिस्तु परस्परमनपेक्ष्यस्थितिरनेकस्य । अ-कौ. ६४
नानालंकारसंसृष्टिः संकीर्णं तु निगद्यते ।
इत्यलंकारसंसृष्टेर्लक्षणीया द्वयी गतिः ॥ का. २.३५९-६०
शब्दार्थवर्त्यलंकारा वाक्य एकत्र भासिनः ।
संकरो वा ॥ अ. सं. ५.१०
योगवशादेतेषां तिलतण्डुलवच्च दुग्धजलवच्च ।
व्यक्ताव्यक्तांशत्वाच्च संकर उपपद्यते द्वेधा ॥ रु. का. १०.२५
अलंकारकलापोऽयमन्यैः संकीर्णतां गतः ।
स्फुरन्ननेकधा वाक्ये संकर सोऽभिधीयते ॥ व ३.६१
अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः । का. प्र. १०.२०९
क्षीरनीरन्यायेन तु संकरः । अ. स. ८७
स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकर:रः । हे. का. ६.३१
कथितस्तु संकरोऽयं त्रिविध यः क्षीरनीरवद्भवति ॥ ए. ८.७६
क्षीरनीरनयाद्यत्र संवन्धः स्यात् परस्परम् ।
अलंकृतीनामेतासां संकरः स उदाहृतः ॥ प्र. य.
अङ्गाङ्गित्वेऽलंकृतीनां तद्वदेकाश्रयस्थितौ ।
संदिग्धत्वे च भवति संकरस्त्रिविधः पुनः ॥ सा. १०.९८
 
स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपद्येन वा अलंकाराणामेकात्रावस्थानं संकरः । वा. का. ३
 
संकरस्त्वङ्गाङ्गिभावः बहूनां वा द्वयोश्च वा
सहावस्थानबाधेन भवेन्नो वेत्यनिश्चये
संकरोऽनिश्चयाख्यः स्यात् ... ॥