This page has been fully proofread once and needs a second look.

Samsrstih Samkara: Conjuction of fugures
 
अव्यक्ता क्षीरजलवत् पांशुपानीयवच्च सा ।

व्यक्ताव्यक्ता च संसृष्टिर्नरसिंहवदिष्यते ।

चित्रवर्णवदन्यस्मिन् नानालंकारसंकरे ॥ स. ४.८७-८९

राजन्ति यत्रालंकारा अन्योन्यान्वितवृत्तयः ।
 

यथा पदार्था वाक्यार्थे संसृष्टि: साभिधीयते ॥ व. ३.६०

सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ का. प्रा. १०.२०३

एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टि: । अ. स. ८४

एषां तिलतण्डुलवन्मिश्रुत्वेनाभ्यधायि संसृष्टिः। ए. ७६

तिलतण्डुलसंश्लेषन्यायाद् यत्र परस्परम्
 

संश्लिष्येयुरलंकाराः सा संसृष्टिर्निगद्यते ॥ प्र. य. ४७२

मिथोनपक्षमेतेषां स्थितिः संसृष्टिरुच्यते । सा. १०.९८

संसृष्टिरप्यसौ क्रियाशब्दार्थोभयभूः सा । अ. कौ. ८.३१५

संसृष्टिस्तु परस्परमनपेक्ष्यस्थितिरनेकस्य । अ-कौ. ६४

नानालंकारसंसृष्टिः संकीर्णं तु निगद्यते ।

इत्यलंकारसंसृष्टेर्लक्षणीया द्वयी गतिः ॥ का. २.३५९-६०

शब्दार्थवर्त्यलंकारा वाक्य एकत्र भासिनः ।
 

संकरो वा ॥ अ. सं. ५.१०
 

योगवशादेतेषां तिलतण्डुलवच्च दुग्धजलवच्च
 

व्यक्ताव्यक्तांशत्वाच्च संकर उपपद्यते द्वेधा ॥ रु. का. १०.२५
 

अलंकारकलापोऽयमन्यैः संकीर्णतां गतः ।
 

स्फुरन्ननेकधा वाक्ये संकर सोऽभिधीयते ॥ व ३.६१

अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः । का. प्र. १०.२०९

क्षीरनीरन्यायेन तु संकरः । अ. स. ८७
 

स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकर: । हे. का. ६.३१

कथितस्तु संकरोऽयं त्रिविध यः क्षीरनीरवद्भवति ॥ ए. ८.७६
 

क्षीरनीरनयाद्यत्र संवन्धः स्यात् परस्परम् ।

अलंकृतीनामेतासां संकरः स उदाहृतः ॥ प्र. य.

अङ्गाङ्गित्वेऽलंकृतीनां तद्वदेका श्रयस्थितौ ।
 

संदिग्धत्वे च भवति संकरस्त्रिविधः पुनः ॥ सा. १०.९८
 

 
स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपद्येन वा अलंकाराणामेकात्रावस्थानं संकरः । वा. का. ३
 

 
संकरस्त्वङ्गाङ्गिभावः बहूनां वा द्वयोश्च वा
 

सहावस्थानबाधेन भवेन्नो वेत्यनिश्चये
 

संकरोऽनिश्चयाख्यः स्यात् ... ॥
 
Google
 
179
 
Digitized by
 
Original from
UNIVERSITY OF MICHIGAN