This page has not been fully proofread.

170
 
A Handbook of Classical Sanskrit Rhetoric
 
Definitions
 
अन्यैर प्रतिहतमपि कारणमुत्पादनं न कार्यस्य ।
यस्मिन्नभिधीयते व्याघातः स इति विज्ञेयः ॥ रु. का. ९.५२
यद्यथा साधितं केनाप्यपरेण तदन्यथा ।
 
तथैव यद्विधीयते स व्याघात इति स्मृतः ॥ का. प्र. १०.२०३
यथासाधितस्य तथैवान्यथाकरणं व्याघातः । अ. स. ५२
स्याद् व्याघातोऽन्यथाकारि वस्त्वन्यक्रियमुच्यते । च. ५.८४
किञ्चित्केनापि यथा विहितं तद्वस्तु तत्ततोऽन्येन ।
क्रियतेऽन्यथा तथैव व्याघातोऽयं समाख्यातः ॥ ए. ८.४२
येन यत्साधितं वस्तु तेनैव क्रियतेऽन्यथा ।
 
अन्येन तदलंकारो व्याघात इति कथ्यते ॥ प्र. य. ८.२५५
व्याघातः स तु केनापि वस्तु येन यथाकृतम् ।
तेनैव चेदुपायेन कुरुतेऽन्यस्तदन्यथा ।
 
सौकर्येण च कार्यस्य विरुद्धं क्रियते यदि । सा. १०.७४-७५
एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते स व्याघातः । वा. का. ३
स्याद्वाघातोऽन्यथाकारि तथाकारि क्रियेत चेत् । कु. ४५.१०२
सौकर्येन निबद्धापि क्रिया कार्यविरोधिनी ।
 
यद्वस्तु साधितं येन करणेन तदन्यथा ।
 
तेनैव यदि तस्य स्यात्तदा व्याघात इष्यते ॥ अ. कौ. ८.३२५
 
यत्र ह्येकेन कर्त्रा येन कारणेन कार्यं किञ्चिन्निष्पादितं निष्पिपादयिषितं वा तदन्येन
कर्त्रा तेनैव कारणेन तद्विरुद्धकार्यस्य निष्पादनेन निष्पिपादयिषया वा व्याहन्येत स
व्याघातः । र. १
 
कार्यान्तरहेतुतयान्येनाभिमताद्विरुद्धकार्यं चेत् ।
 
क्रियते परेण तस्माद् व्याघातोऽयं समाख्यातः । अ-कौ. ६३
 
व्याजोक्तिः Vyājoktih : Innuendo :
 
vyāja ukti means a deceitful or pretended statement. As a figure of speech
it is a statement made in such a way as to hide or deny something art-
fully which is otherwise clear or exposed by any means. Udbhaṭa and
his commentator treat Vyājokti as a variety of Apahnuti (Concealment),
but Mammaţa and his followers accept it as a separate figure.
 
Mammaţa says that Apahnuti shows some kind of resemblance
 
Google
 
Digitized by
 
Original from
 
UNIVERSITY OF MICHIGAN