This page has been fully proofread once and needs a second look.

Rupakam : Metaphor
 
Definitions
 

 
स्वविकल्पेन रचितं तुल्यावयवलक्षणम् ।

किञ्चित्सादृश्यसम्पन्नं यद्रूपं रूपकं तु तत् ॥

नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् ।

रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥

स्वविकल्पैर्विरचितं …. … ……. .….…।
 
...
 

नानाद्रव्यानुषङ्गाद्यैर्यदौपम्यं
 
Digitized by
 
...
 
...
 
...
 
… … …
रूपनिर्वर्णायुक्तं तद्रूपकमिति स्मृतम् ॥ ना. १६.५६-५८

उपमानेन तुल्यत्वमुपमेयस्य रूपकम् । वि. १४.४

उपमैव तिरोभूतभेदा रूपकमुच्यते। का. २.६६

उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते ।
 

गुणानां समतां दृष्ट्वां रूपकं नाम तद्विदुः ॥ भा. का. २.२१

श्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम् ।
 

गुणवृत्तिप्रधानेन युज्यते रूपकं तु तत् ॥ अ. सं. १.११

उपमानेनोपमेयस्य गुणसाम्यात् तत्त्वारोपो रूपकम्। का. सू. ४.३.६

यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा ।

अविवक्षितसामान्या कल्प्यत इति रूपकं प्रथमम् ॥

उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः ।
 

यत्तु प्रयुज्यते तद्रूपकंमन्यत् समासोक्तम् ॥ रु. का. ८.३८,४०

उपमैव तिरोभूतभेदा रूपकमेव वा ॥ अ. ३४४.२२-२३

उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते ।
 

गुणानां समतां दृष्टा रूपकं नाम तद्विदुः ॥

उपचारैकसर्वस्वं (यत्र तत्) साम्यमुद्वहन् ।

यदर्पयति रूपं स्वं वस्तु तद्रूपकं विदुः ॥ व ३.२१

यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् ।

उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ॥ स. ४.२४

उपमैवोत्पन्नसादृश्यात्तिरोभूतभेदा रूपकम् । श्रृ. १०

तद्रूपकमभेदो य उपमानोपमेययोः । का. प्र. १०.१३६

भेदप्राधान्ये आरोपे आरोपविषयापह्नवे रूपकम् । अ. स. १६

रूपकं यत्र साधर्म्यादर्थयोरभिदा भवेत् । वा. ४.६६

सादृश्येऽभेदेनारोपो रूपकमेकानेकविषयम् । हे का. ६.५.

यत्रोपमानचित्रेण सर्वथाप्युपरज्यते
 

उपमेयमयी भित्तिस्तत्र रूपकमुच्यते ॥ च. ५.१८
 
Google
 
137
 
Original from
UNIVERSITY OF MICHIGAN