This page has been fully proofread once and needs a second look.

enemy, who is going to be annihilated by Bhima, for his misdeeds
towards Draupadi (Bhima's wife). Here three epithets have been
used to highlight the character of Karṇa — angarāja (the king of
the renowned anga state), senāpate (the commander-in-chief of the
Mahābhārata war after the killing of Drona) and droṇopahāsin (who
ridiculed even Drona, the preceptor of marshal arts to the
Pāṇḍavas as well as Kauravas).
 
Definitions
 
साभिप्रायैः सम्यग्विशेषणैर्वस्तु यद्विशिष्येत ।
द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥ र. का. ९.७२
क्रियाकारकसम्बन्धिसाध्यदृष्टान्तवस्तुषु ।
क्रियापदाद्युपस्कारमाहुः परिकरं बुधाः ॥ स. ४.७२
उपमारूपकादीनां शब्दार्थोभयभङ्गिभिः ।
साधर्म्यात्पादनं यत् तमन्ये परिकरं विदुः ।
विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । का. प्र. १०.१७३
विशेषणसाभिप्रायत्वं परिकरः । अ. स. ३३
अलंकारः परिकरः साभिप्राये विशेषणे । च. ५.३६
साभिप्राये विशेषणे तु भवेत् परिकराङ्कुरः। च. ५.४०
विलसति विशेषणानां प्रतीयमानार्थगर्भता यत्र ।
सहृदयहृदयाह्लादी परिकरनामा स निर्दिष्टः ॥
तादृक् किमपि विशेष्यं साभिप्रायत्वमश्नुते यत्र ।
स परिकराङ्कुरनामालंकारः कीर्तितः कविभिः ॥ ए. ८.२५
यत्राभिप्रायगर्भा स्याद्विशेषणपरम्परा ।
तत्राभिप्रायविदुषामसौ परिकरो मतः ॥ प्र. य. ८
उक्तैर्विशेषणैः साभिप्रायैः परिकरो मतः । सा. १०.५७
साभिप्रायविशेषणैर्भक्ति:तिः परिकरः । वा. ३
अलंकारः परिकरे साभिप्राये विशेषणे । कु. २४.६२
विशेषोक्तिः परिकर:रः स्यात् साकूतैर्विशेषणैः । अ. कौ. ८.२६१
विशेषणानां साभिप्रायत्वं परिकरः । र. २
 
<headword>परिवृत्ति</headword>
 
परिवृत्तिः Parivṛttiḥ : Exchange :
 
pari √vṛt ti <ktin = parivṛtti figuratively means exchange of one thing for
another equal or unequal to it. Therefore, it is a kind of mutual