This page has been fully proofread once and needs a second look.

Definitions
 
अर्थमिष्टमनाख्याय साक्षात्तस्यैव सिद्धये ।
यत्प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते ॥ का. २.२२६

पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते । भा. का. ३.८

पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।
वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ॥ अ. सं. ४

पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः । का. प्र. १०.१३५

गम्यस्यापि भङ्गयन्तरेणभिधानं पर्यायोक्तम् । अ. स. ३७

अतत्परतया यत्र जल्पमानेन वस्तुना ।
विवक्षितं प्रतीयते पर्यायोक्तिरियं यथा ॥ वा. ४.१०

व्यङ्गस्योक्तिः पर्यायोक्तम् । है. का. ६.६

कार्याद्यैः प्रस्तुतैरुक्तैः पर्यायोक्तिं प्रचक्षते । च. ५.६८

यत्र व्यङ्गयास्य सतो हेतोः कार्याभिधानभङ्गीभिः ।
स्यादभिधानं सुधियः पर्यायोक्तं विदुस्तदिदम् ॥ ए. ८.२६

कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्णनात् ।
प्रस्तुतत्वेन संबद्धं तत् पर्यायोक्तमुच्यते ॥ प्र. य. ४४६

पर्यायोक्तं यदा भङ्गया गम्यमेवाभिधीयते । सा. १०.६०

ध्वनिताभिधानं पर्यायोक्तिः । वा. का. ३

पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् । कु. २६.६८

पर्यायोक्तं तदप्याहुर्यद् व्याजेनेष्टसाधनम् । कु. २६, ६६

विना वाचकवाच्यत्वं यत्र वस्तु प्रतीयते ।
पर्यायोक्तं तत् । अ. कौ. ८.२८३

प्रस्तुतत्वे द्वयोः कार्यात् कारणं यत्र गम्यते ।

पर्यायेणोच्चार्यमाणत्वात् पर्यायोक्तं तदुच्यते । र. २

विवक्षितार्थस्य भङ्गयन्तरेण प्रतिपादनं पर्यायोक्तम् । र. २
 
<headword>परिकर</headword>
 
परिकरः Parikarah : Significance :
 
pari √kṛ a < ac literally means significant, additional, excessive etc. As a
figure Parikara is a poetic statement having some significant epithets
about something. Such a statement might have one or more than one
such epithet bringing some sort of prominence about the object or
the person concerned. Here the significant epithets or coined
phrases may also imply some suggestive sense, but the expressed
sense is more charming than the suggested one.