This page has been fully proofread once and needs a second look.

जन्मेदं बन्ध्यतां नीतं भवभोगविलिप्सया ।
काचमूल्येन विक्रोती हन्त चिन्तामणिर्मया ॥
 
For the greed of enjoyments mundane
This human existence passed in vain;
Alas indeed! the most precious jewel
Just at the rate of glass I had to sell.
 
Definitions
 
वस्तुनस्तूपमानेन दर्शनं तन्निदर्शनम् । वि. १४.१४

अर्थान्तरप्रवृत्तेन किञ्चित्तत्सदृशं फलम् ।
सदसद्वा निदर्श्यते यदि स्यात्तन्निदर्शनम् ॥ का. २.३४८

क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् ।
ज्ञेया निदर्शना नाम यथेववतिभिर्विना ॥ भा. का. ३.३३

अभवन्वस्तुसंबन्धो भवन् वा यत्र कल्पयेत् ।
उपमानोपमेयत्वं कथ्यते सा विदर्शना ॥ रु. का.

दृष्टान्तः प्रोक्तसिद्धैय सिद्धेऽर्थे तन्निदर्शनम्। स. ३.३१

निदर्शना
अभवन् वस्तुसंबन्ध उपमापरिकल्पकः । का. प्र. १०.१४६

सम्भवताऽसम्भवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्ब-
करणं निदर्शना । अ. स. २८

इष्टार्थसिद्धयै दृष्टान्तो निदर्शनम् । हे. का. ६.६

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । च. ५.५६

प्रतिबिम्बनस्य करणं संभवता यत्र वस्तुयोगेन ।
गम्यमसंभवता वा निदर्शना सा द्विघाभिमता ॥ ए. ८.१६

असंभवद्धर्मयोगादुपमानोपमेययोः ।
प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥ प्र. य. ४३३

सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वाऽपि कुत्रचित् ।
यत्र बिम्बानुबिम्बत्वं बोधयेत् सा निदर्शना ॥ सा. २०.५१

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । कु. १६.५३

असम्बद्धरूपं यत्तुपमाकृति निदर्शनैषा दृष्टान्तप्राया। अ. कौ. ८.२५२

यत्र क्रियैव वक्ति स्वरूपं हेतुञ्च साऽन्या । अ. कौ. ८.२५३

उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शना । र. २