This page has been fully proofread once and needs a second look.

Definitions
 
विवक्षितगुणोत्कृष्टैर्यत् समीकृत्य कस्यचित् ।
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ का. २.३३०
न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ।
तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता ॥ भा. का. ३.२७
उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः ।
साम्याभिघायि प्रस्ताववाग्भिर्वा तुल्ययोगिता ॥ अ. सं. ५
विशिष्टेण साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता । का. सू. ४.३.२६
विवक्षितगुणोत्कृष्टैर्यत् समीकृत्य कस्यचित् ।
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ॥ स. क. ४.५५
नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता । का. प्र. १०.१५८
औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुनां वा
समानधर्माभिसम्बन्धे तुल्ययोगिता । अ. सं. २४
उपमेयं समीकर्तुमुपमानेन योज्यते ।
तुल्यैककालक्रियया यत्र सा तुल्ययोगिता ॥ वा. ४.८८
क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता । च. ५.४६
औपम्यगम्यतायां प्रकृतानां तुल्यघर्मसंबन्धे ।
अप्रकृतानामथवा चतुर्विघा तुल्ययोगिता ज्ञेया॥ ए. ८.१४
प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः
औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ प्र. य. ४.२८
अन्ये सुखनिमित्ते च दुःखहेतौ च वस्तुनि ।
स्तुतिनिन्दार्थमेवाहुस्तुल्यस्वे तुल्ययोगिताम् ॥ स. ४.५५
पदार्थानां प्रस्तुतानामन्येषां वा यदा भवेत् ।
एकधर्माभिसम्बन्ध:धः स्यात्तदा तुल्ययोगिता ॥ सा. १०.४६
वर्ण्यानामितरेषां वा धर्म्यैक्यं तुल्ययोगिता । कु. १४.४४
प्रकृतानाञ्चैकदोक्तिरुच्यते तुल्ययोगिता । अ. कौ. ८.२६६
प्रकृतानामेवाप्रकृतानामेव वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगिता ।
 
<headword>दीपक</headword>
 
दीपकम् Dīpakam: Illuminator :
 
The name Dīpaka ( dīpa ka light) is self-expressive. A light illumi-
nates not only its own self but also other things associated with it.
The figurative expression in Dīpaka serves as a light that enkindles
both the contextual as well as the non-contextual through some