This page has been fully proofread once and needs a second look.

na ṣaṭpadoʼsau na juguñja yaḥ kalam
na guñjitaṃ tanna jahāra yanmanaḥ.

न तज्जलं यन्न सुचारुपंकजम् / न पंकजं तत् यदलीनषट्पदम् ।
न षट्पदोऽसौ न जुगुञ्ज यः कलम् / न गुञ्जितं तन्न जहार यन्मनः ॥

There was not a single pond which was not charming with lotuses,
There was not a single lotus which was not surrounded by bees,
Not a single bee that made sweet humming sound,
Not a single humming that did not captivate the mind.
 
Definitions
 
एकावलीति सेयं यत्रार्थपरम्परा यथालाभम् ।
आदीयते यथोत्तरविशेषणा स्थित्यपोहाभ्याम् ॥ रु. का. ७.७०६

स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम् ।
विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ का. प्र.

यथा पूर्वं परस्य विशेषणतया स्थापनोपहने ॥ अ. स. ५५

पूर्वपूर्वार्थवैशिष्टनिष्ठानामुत्तरोत्तरम् ।
अर्थानां या विरचना बुधैरेकावली मता ॥ वा. ४.१३६

गृहीतमुक्तरीत्यर्थश्रेणिरेकावली मता। च. ५.८३

यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव ।
भजति परं परमेषामलंकृतिरेकावली कथिता ॥ ए. ८.८६

यत्रोत्तरोत्तरेषां स्यात् पूर्वं प्रतिक्रमात् ।
विशेषणत्वकथनमसावेकावली मता ॥ प्र. य. ४३६

पूर्वं पूर्वं प्रति विशेषणत्वेन परं परम् ।
स्थाप्यतेऽपोह्यते वा चेत् स्यात्तदैकावली द्विधा ॥ सा. १०.३३

पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली । वा. का. ३

स्थाप्यते खण्ड्यते वापि पूर्वं पूर्वं परेण यत् ।
विशेषणतया वस्तु सा द्विघैकावली भवेत् ॥ अ. कौ. ८०३०७

सैव शृङ्खला संसर्गस्य विशेष्यविशेषणभावरूपत्वे एकावली । र. २
 
<headword>ऐतिह्य</headword>
 
ऐतिह्यम् Aitihya: Tradition:
 
iti ha yya=aitihya means tradition, instruction, legendary account, infalli-
ble testimony; it is regarded as one of the valid proofs of cognition
and reckoned along with others like pratyakṣa (direct perception),
anumāna (inference ) etc.