This page has been fully proofread once and needs a second look.

6. candrāyate śukla-rucāpi haṃso
haṃsāyate caru-gatena kāntā.

चन्द्रायते शुक्लरुचापि हंसो/हंसायते चारुगतेन कान्ता । ( girdle simile )
By its white lustre the swan behaves like the moon,
By her attractive gait the lady love acts like the swan.
 
7. krameṇa ca kṛtaṃ me vapuṣi vasanta iva madhumāsena, madhumāsa iva nava pallavena, nava-pallava iva
kusumena, kusuma iva madhukareṇa, madhukara iva madena, navayauvanena padam.

क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव
कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् ।

Gradually newly blooming youth stepped into my body
like the advent of spring with the honey-month, honey-
month with fresh leaves, fresh leaves with flowers, flowers
with bees, bees with intoxication.
 
Definitions
 
यत्किञ्चिद् काव्यबन्धेषु सादृश्येनोपमीयते ।
उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ ना. १६.४२

यथाकथञ्चित् सादृश्यं यत्रोद्भूतं प्रतीयते ।
उपमा नाम सा ॥ का. २.२४

विरुद्धेनोपमानेन देशकालक्रियादिभिः ।

उपमेयस्य यत्साम्यं गुणलेशेन सोपमा । भा. का. २.३०

हृद्यं साधर्म्यमुपमा । भा. का. ६.१, हे. का. ६.१

यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः ।
मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ॥ अ. सं १.३२

उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा । का. सू. ४.२.१

उभयोः समानमेकं गुणादिसिद्धं भवेद्यथैकत्र ।
अर्थोऽन्यत्र तथा तत्साध्यत इति सोपमा ॥ रु. का. ८.४

उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा । अ. स. १२

उपमा नाम सा यस्यामुपमानोपमेययोः ।
सत्ता चान्तरसामान्ययोगित्वेऽपि विवक्षितम् ॥ अ. ३४४.६

प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः ।
भूयोऽवयवसामान्ययोगो महोपमा मता ॥ स. ४.५