This page has not been fully proofread.

गोविन्द दामोदर स्तोत्र
 
जलाशये
 
१४ ]
 
( ३० )
कालियमर्दनाय
 
यदा कदम्बादपतन्मुरारिः ।
गोपाङ्गनाइचुक्रुशुरेत्य गोपा
 
गोविन्द दामोदर माधवेति ॥
( ३१ )
 
अक्रूरमासाद्य यदा मुकुन्द-
श्रापोत्सवार्थ मथुरां प्रविष्टः ।
 
तदा स पौरैर्जयतीत्यभाषि
 
गोविन्द दामोदर माधवेति ॥
( ३२ )
कंसस्य दूतेन यदैव नीतौ
 
वृन्दावनान्ताद् वसुदेवसूनू ।
 
करोद गोपी भवनस्य मध्ये
 
गोविन्द दामोदर माधवेति ॥
( ३३ )
सरोवरे कालियनागबद्धं
 
शिशुं यशोदातनयं निशम्य ।
 
चक्रुर्लुठन्त्यः पथि गोपबाला
 
गोविन्द दामोदर माधवेति ॥
( ३४ )
यदुवंशनाथं
संगच्छमानं मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला
 
अक्रूरयाने
 
गोविन्द दामोदर माधवेति ॥