This page has not been fully proofread.

गोविन्द दामोदर स्तोत्र
 
१०
 
( २० )
भोजनमज्जनार्थ
हितैषिणी स्त्री तनुजं यशोदा ।
प्रेमपरिप्लुताक्षी
 
गोविन्द दामोदर माधवेति ॥
( २१ )
सुखं शयानं निलये च विष्णुं
 
देवर्षिमुख्या मुनयः प्रपन्नाः ।
 
क्रीडापरं
 
आजूहवत्
 
तेनाच्युते तन्मयतां व्रजन्ति
 
गोविन्द दामोदर माधवेति ॥
( २२ )
विहाय निद्रामरुणोदये च
 
विधाय कृत्यानि च विप्रमुख्याः ।
 
वेदावसाने प्रपठन्ति नित्यं
 
गोविन्द दामोदर माधवेति ॥
( २३ )
वृन्दावने गोपगणाञ्च गोप्यो
 
विलोक्य गोविन्दवियोगखिन्नाम् ।
 
राधां जगुः साश्रुविलोचनाभ्यां
 
गोविन्द दामोदर माधवेति ॥
( २४ )
 
प्रभातसञ्चारगता नु गाव-
स्तद्ररक्षणार्थे तनयं यशोदा ।
 
प्राबोधयत् पाणितलेन मन्दं
 
गोविन्द दामोदर माधवेति ॥