गङ्गावतरणम् /75
This page has not been fully proofread.
८ सर्गः]
गङ्गावतरणम् ।
।
संभाव्य देवः क्रमशो द्विजातीन्बन्धूनमात्याननुजीविनश्च
द्वारान्तिकस्तब्धवधूसमाजसंबाधमन्तःपुरमाविवेश ॥ ८८ ॥
वियोगखिन्नास्तपसा विषण्णं खप्नेक्षिताः स्वप्नदशानुभूतम् ।
स्मेराननाः स्मेरमुखारविन्दं तमभ्युपेयुस्तरुणं तरुण्यः ॥ ८९ ॥
पादे निपेतुः परिरभ्य दीर्घं तस्थुर्मुखैस्तस्य मुखं चुचुम्बुः ।
संकल्पयोगाच्चिरविप्रलब्धास्तथापि तं नैव विशश्वसुस्ताः ॥ ९० ॥
संरक्षन्ननुजीविनो वितरणैः संप्रीणयन्नर्थिनः
पौराञ्जानपदानपि प्रतिदिनं पश्यन्दयादृष्टिभिः ।
आ वेधोगृहमा रसातलमपि स्वं नाम विश्रावय-
न्दीनत्राणकृता भुजेन बुभुजे देवः समस्तां भुवम् ॥ ९१ ॥
वाचं व्याकुरुते चिरंतनगिरं मीमांसते चोभयीं
पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति ।
मामेतत्कथयिष्यतीति रचितं काव्यं मया तत्पुन -
स्तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः ॥ ९२ ॥
साहित्यं न हि जानते कतिपये शास्त्रैकनिष्ठा यदि
क्षन्तव्यं विदुषामिदं क्व नु पुनः सर्वत्र सर्वज्ञता ।
उत्पन्नाः किल धूमकेतव इव क्लिश्नन्ति यत्साहितीं
दुर्वेदग्ध्यलवेन केचिदिह तद्दुःखाय विद्यावताम् ॥ ९३ ॥
अस्पृष्टाः कलयापि दुष्कविकुलैरज्ञैरना कर्णिता
६७
ज्ञानाज्ञानवतां कदाप्यपतिता दूरे दुरूहाध्वनि ।
खेलन्तु श्रुतिसंपुटीचुलुकिताः खैरं रसज्ञैर्जनैः
प्रत्युक्तिच्यवमाननूतनसुधासाराः कवीनां गिरः ॥ ९४ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमत प्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षितपौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे भगीरथनगरप्रवेशो नामाष्टमः सर्गः ।
समाप्तोऽयं ग्रन्थः ।