This page has not been fully proofread.

काव्यमाला ।
 
दिवौकसः पाणिविहारमात्रतो दृशोर्निकोचेन परं फणाभृतः ।
अनेन तेनापि नरा व्यवाहरन्नथ क्षणं गर्जति तस्य दुन्दुभौ ॥ ७४ ॥
कठोरधाराङ्कुशपातसंकुचत्सबृंहितोदस्तमुखा
 
विषाणिनः ।
 
कोशवितीर्णसंभ्रमैर्निषादिभिर्दूरत एव निन्थिरे ॥ ७५ ॥
 
तनुच्छदासञ्जितचर्मपट्टिकानिबद्धकौक्षेयनिषङ्गकार्मुकाः ।
खलीनरज्जुग्रहणोच्छ्रिताननाः प्रचेलुरश्वाः पुरतोऽस्य सङ्घशः ॥ ७६ ॥
पताकिनीमूलचरो भगीरथः समन्त्रिवर्गैश्चतुररैतर्क्यत ।
 
अनुद्रुतः प्राक्चिरमभ्रगङ्गया स्वयं च तां किंचिदनुद्रवन्निव ॥ ७७ ॥
योघैस्तरङ्गाननु निप्पतद्भिर्भङ्गैश्च योधाननु धावमानैः ।
 
चमूचराः
 
मिथो मृषा युद्धमिवाततान महार्णवस्तस्य बलार्णवेन ॥ ७८ ॥
प्राप्तोपगूहा इव वारिराशेः पर्यन्ततालीवनमर्मरेण ।
तरङ्गरेखाविलयान्तरेषु सेनारवाः शुश्रुविरे नृपेण ॥ ७९ ॥
दि॒िव्यं पयः क्षोणितलेऽवतार्य संपन्नकीर्तिं तमिवानुकर्तुम् ।
भौमं रजो वाजिखुरप्रसूतं पताकिनी तस्य दिवं निनाय ॥ ८० ॥
सैनिकावतरदीर्घतरङ्गा संददर्श सरयूमविदूरे ।
सानुरागमुपगूहितुमग्रे संप्रसारितकरामिव देवः ॥ ८१ ॥
ततो विलम्ब्य क्षणभागमय्य पताकिनीमप्यनुसंपतन्तीम् ।
स राजचिह्रैरुपसेव्यमानः शनैरयोध्याभिमुखं प्रतस्थे ॥ ८२ ॥
तृष्णाकदुष्णं पततामभीक्ष्णं पौराङ्गनालोचनमण्डलानाम् ।
उत्सारणायेव स चामराभ्यां संवीज्यमानः शनकैरयासीत् ॥ ८३ ॥
तस्याग्रतो निर्मलमाबभासे साम्राज्यचिह्नं नवमातपत्रम् ।
पुरौकसां दर्शयितुं नृपेण नीतः कियानंश इवाभ्रसिन्धोः ॥ ८४ ॥
आलिप्तहर्म्याग्रपदं सुधाभिराबद्धहेमध्वजलोभनीयम् ।
संमृष्टरभ्यं च समन्ततोऽपि भगीरथस्तन्नगरं विवेश ॥ ८५ ॥
पताकिनीभिः प्रविशन्तमन्तर्लाजैरवर्षन्पुरयोषितस्तम् ।
गङ्गावतारावसरे पुरेव दिव्यैः प्रसूनैर्दिवि देवकन्याः ॥ ८६ ॥
आह्लादिभिर्मङ्गलतूर्यघोषैराशीवचोभिश्च समं जनानाम् ।
सौधाधिरूढैः शतशोऽवरोधैः संदृश्यमानः सदनं विवेश ॥ ८७ ॥