गङ्गावतरणम् /73
This page has not been fully proofread.
८ सर्गः ]
गङ्गावतरणम् ।
तपोविपाकेन निसर्गतोऽपि तमप्रधृष्यं च शनैरुपेत्य ।
पौरैरहंपूर्विकया प्रणेमे तदग्रविन्यस्तमहोपहारैः ॥ ६१ ॥
दृष्ट्यानुकम्प्यानथ संबभाषे संभाषितव्यान्पुनरालिलिङ्ग ।
आलिङ्गितव्यान्प्रणनाम वीरः पौरैश्विरादुत्सुकतां प्रपन्नः ॥ ६२ ॥
६५
प्रख्यापितं प्राक्सुरलोकसिन्धुतरङ्गरेखाजयडिण्डिमेन ।
पृष्टं प्रधानैः सचिवैरुदन्तं संगृह्य वीरः स्खमुदाजहार ॥ ६३ ॥
अलङ्घयवाक्यैरथ बन्धुवर्गै/प्तैरमात्यैरनुजीविभिश्च ।
संप्रार्थ्यमानः सममंस्त वीरः स राजनेपथ्यविधिं तदानीम् ॥ ६४ ॥
मन्दाकिनीमज्जनपूतमेको विसंसयन्नस्य जटाकलापम् ।
उन्नम्य मौलिं ग्रथयांबभूव मुक्तामयैर्दाम भिरेव सान्द्रम् ॥ ६५ ॥
स दुग्धसिन्धूदरजन्मनेव शुद्धेन रेजे श्रुतिमौक्तिकेन ।
कीर्येव कर्णेगतया दिगन्तसमाक्रमोदन्तनिवेदनाय ॥ ६६ ॥
आपाण्डरे चन्दनचर्चिकाभिरामुक्तमुक्तासरलोभनीये ।
वक्षःपदे तस्य चिरेण लक्ष्मीर्भस्माङ्गरागव्यसनं मुमोच ॥ ६७ ॥
चचार कर्णद्वयसानुरागे चित्ते यदन्तःपुरसुन्दरीणाम् ।
स तेन संरक्त इवाबभासे परिष्कृतः काञ्चनकञ्चकेन । ६८ ॥
स पादमूलग्रथितासिधेनुराबद्धतूणः समुपात्तचापः ।
मुखेन रक्तान्तविलोचनेन मूर्तो रसो वीर इवाबभासे ॥ ६९ ॥
हृष्टेन गङ्गानयानान्नदीनां पत्या धुरि न्यस्तमिवोपहारम् ।
सखायमुच्चैःश्रवसस्तुरङ्गं स पाण्डरं कंचिदुपारुरोह ॥ ७० ॥
पदेन किंचिच्चलितेन सैन्धवं श्रवा च पर्यन्तविलोलया चमूम् ।
प्रचालयामास समं भगीरथः शनैस्ततः सागरतीरवर्त्मना ॥ ७१ ॥
हगन्तरान्धंकरणं फणाभृतां दिगन्तगन्धद्विपकर्णदारुणम् ।
मुकुन्दनिद्रारसमोषभीषणं बबन्ध भेरी पुरतोऽस्य मौखरीम् ॥ ७२ ॥
तदानकध्वानतरङ्गसंप्लवैर्बबन्ध शय्या बलिहन्तुरन्धताम् ।
समीपमासेदुषि सा किमन्यथा विशङ्कमासीत विहंगपुंगवे ॥ ७२ ॥