This page has not been fully proofread.

६४
 
काव्यमाला ।
 
कपिलकोपहुताशन संभृतं स पुरतः पितृभस्म निरीक्ष्य तत् ।
प्रमदशोकसमागममूच्छितो द्विविधमनु दधौ युगपदृशोः ॥ ४८ ॥
 
अथ रथादवतीर्य भगीरथे सगरजानुपसर्पति वीक्षितुम् ।
भसितराशिममज्जयदम्भसा भगवती सुरलोकतरङ्गिणी ॥ ४९ ॥
सुरसरित्कवलीकृतशेषितं दिवि यदास्त पदं त्रिदिवौकसाम् ।
तदपि तत्क्षणनिर्हृतकल्मषैरपहृतं बलिभिः सगरात्मजैः ॥ ५० ॥
प्रथमलब्धसुरालयसंभृतप्रतिनवामृतपानगलत्तृषः ।
तद्पवर्जितमञ्जलिमम्भसामपि पपुः पितरः सुतवत्सलाः ॥ ५१ ॥
अथ नदीमवगाह्य विनिर्गतः क्षितिपतिः परिपूर्णमनोरथः ।
मृदुगभीरपदामशृणोद्दिवि स्तुतिं .......चतुराननगुम्फिताम् ॥ ५१ ॥
न सगरोऽयमविन्दत नांशुमान्न च भवज्जनकस्तपसि स्थितः ।
तमपि लब्धवतोऽद्य मनोरथं तव यशो न गिरां पथि वर्तते ॥ ५३ ॥
श्रुतिगिरोऽपि विचित्य विचित्य यं विफलयन्ति परिश्रममात्मनः ।
समुपलभ्य तमेव महेश्वरं क इव नाम नियोजयितुं प्रभुः ॥ ५४ ॥
दशमुखोऽपि यदमिनियन्त्रितान्परिचकर्ष पुरा न भुजान्निजान् ।
क इव तस्य कपर्दपथंगतां सुरनदीमपि कर्षतु साहसी ॥ ५५ ॥
यदभजन्त दिवं सगरात्मजा यदपि सिन्धुरपूर्यत शोषितः ।
यदुपयन्ति नराश्च परं पदं तदखिलं तब तात तपोबलात् ॥ ५६ ॥
तव भगीरथ वत्स सुतार्थिनस्तनुभवा सरिदस्त्वियमादिमा ।
इति निशम्य गिरं परमेष्ठिनः परिजहौ स तपोजनितां व्यथाम् ॥ ५७ ॥
ततः समामन्त्र्य वियन्नदीं तां तदम्बुसंपातपथेन देवः ।
अपाङ्गपातैः फणिसुन्दरीणामनुद्रुतः प्राप तटं पयोधेः ॥ ५८ ॥
ततश्चिरादेत्य तटं पयोधेः प्रतीक्षमाणा नृपतेर्निवृत्तिम् ।
चमूसमेताः सचिवास्तदीयास्तमुत्पतन्तं सलिलादपश्यन् ॥ ५९ ॥
समुद्यतस्तस्य जलान्नृपस्य मुखेन मुग्धस्मितसुन्दरेण ।
उल्लासमासादयति स्म सेना वेलेव सिन्धोः शशलाञ्छनेन ॥ ६० ॥
१. 'समुद्यतः' इति षष्टयेकवचनम्.