गङ्गावतरणम् /71
This page has not been fully proofread.
८ सर्गः ]
गङ्गावतरणम् ।
प्रवसतो विनिवर्तयितुं पतीकृतधियः किल यत्कणिकन्यकाः ।
पथि कुहापि तदीक्षणगोचरे परिनिपत्य भवन्ति गतज्वराः ॥ ३५ ॥
स्खयमुपेतसमीरकृताशनैः स्फुटितभूविवरोदरशायिभिः ।
फणधरैरनपेक्षितवेतनैः प्रभुरवर्तत यत्र स वासुकिः ॥ ३६ ॥
सदनमेत्य स जग्धिकृते सखीन्समुपहूय निवेश्य च पकिशः ।
विदधति व्यजनैरुपवीजनं किमपि यत्र मुखेष्वनिलाशनाः ॥ ३७ ॥
सति फणावलयातपवारणे सति च तन्मणिदीपशिखाङ्कुरे ।
घनत टिज्जटिलेषु घनागमेष्वभिसरन्ति न यत्र फणिस्त्रियः ३८ ॥
न विधुरस्ति न दक्षिणमारुतः क इव तद्विधुरः कुसुमायुधः ।
तदपि शासनमस्य दुरुत्तरं शिरसि बिभ्रति यत्र फणिस्त्रियः ॥ ३९ ॥
ऋतिचिदच्युतमञ्च कुलोद्भवाः कतिपये हरकुण्डलवंशजाः ।
रविरथाश्चगुणान्वयजाः परे तदिह तार्क्ष्यभयं न यदोकसाम् ॥ ४० ॥
अधुतसिद्धशिरोमणिभूषणो ग्रथनविश्लथनासहकञ्चुकः ।
अघृतकुण्डलमुग्धमुखाम्बुजो जयति यत्र भुजङ्गवधूजनः ॥ ४१ ॥
सति महावरणेऽपि हि यज्जना न दधते परिखाखनने त्वराम् ।
तनुतराजभवाण्डकरण्डकाघरकपालपरिक्षतिशङ्कया ॥ ४२ ॥
परिपतत्सु ततः स समन्ततः खमवलोकयितुं पुरवासिषु ।
बहिरभीतवदास्त हृदा पुनः परिजजाप पतङ्गपतेर्मनुम् ॥ ४३ ॥
पतति तत्र सुधाशनदीजले फणधराः कतिचित्पथि पातिनः ।
प्रविशिशुर्भयसंकुचिताङ्गका रथविटङ्कपदेषु महीपतेः ॥ ४४ ॥
प्रमथनाथजटापटलापतत्फणधरेन्द्रमुखादखिलां कथाम् ।
श्रुतवतां किल तन्नगरौकसां सुरनदी न बभूव भयावहा ॥ ४५ ॥
प्रविशतीषु रसातलमण्डलं त्रिदशसिन्धुजलोरगपङ्किषु ।
अजनि बन्धुसमागम संभवः फणभृतां प्रतिमन्दिरमुत्सवः ॥ ४६ ॥
अथ परीत्य स भोगवतीं पुरीममरसिन्धुसखो वसुधेश्वरः ।
शुचि विविक्तमनोरममासदद्भगवतः कपिलस्य तपोवनम् ॥ ४७ ॥
१. 'सदनमेत्य स' इत्येव मातृकायाम् (सदनमेय च ?).
६३