This page has not been fully proofread.

६२
 
काव्यमाला ।
 
कियदिदं परिपूरयितुं भवेत्सगरसू नुनखाग्रकृतं बिलम् ।
 
इति पतद्भिरपि स्मयमन्धरं सिमसिमायितमेव तदुर्मिभिः ॥ २२ ॥
समदवल्गदमर्त्यतरङ्गिणीशफरवर्गनिरीक्षणलज्जिताः ।
 
अनुबभूवुरहो नु महोत्सवं तमपि सिन्धुशया जलजन्तवः ॥ २३ ॥
मधुरिमैकरसापि सुरापगा लवणतामगमत्पतितार्णवे ।
 
भुवनमूल्यरसापि हि साहिती कुकविवऋगता कुरुते व्यथाम् ॥ २४ ॥
सुरनदीसलिलानिलताडितः परिजहौ भसितावरणं पुनः ।
 
अधित धूममथाग्निरबिन्धनः सति समीपतले पुनरातेि ॥ २५ ॥
पयसि संभृत एव यथापुरं जलनिधौ मिलिता जलजन्तवः ।
यदि भवन्ति कथंचन संपदो भवति का खजनेषु दरिद्रता ॥ २६ ॥
सगरनन्दनरन्ध्रसमुत्पतद्भुजगराजपुरीतिमिरावृते ।
 
जलनिधेः कुहरे लुठनादभूत्सुरनदीसलिलेष्वपि नीलता ॥ २७ ॥
समुपलभ्य पयांसि यथापुरं मुमुदिरे न तथा जलमानवाः ।
सलिलशोषदशासु लयं गतान्समनुचिन्त्य शिशूनरुदन्यथा ॥ २८ ॥
समधिकोष्मणि तत्र विलिलियरे निपतिताः प्रथमे सरिदूर्मयः ।
सपदि पूरितसागरवीचिकाप्रतिहताश्चरमे तु निवर्तिताः ॥ २९ ॥
चुलुकितो मुनिनापि गतत्रपः परिजुघोष पुरेव तदार्णवः ।
मतिमता ध्वनितव्यमदोषवत्क इव वेद गतं सदसच्च वा ॥ ३० ॥
अयमगाहत शोषमिह स्थिता जलचरा बहवः प्रलयं गताः ।
इति तदम्बुनरा मुदिताः क्षणादकथयन्गतकल्पकथामिव ॥ ३१ ॥
अथ पतन्तममुं नृपते रथं तमपि सागरपूरणनिखनम् ।
युगपदेव पपुः सुखमीक्षणैर निमिषैरहिलोकपुरंध्रयः ॥ ३२ ॥
फणधरालयमूलनिवासिनं प्रमथनाथमवेक्ष्य भयेन वा ।
क्षणनिरुद्धतरङ्गरया पुनः परिपपात भगीरथबोधिता ॥ ३३ ॥
कनकभूधरमूलमणित्विषा गलितसंतमसेऽथ रसातले ।
भुजगराजभुजार्गलपालितां धुरि ददर्श स भोगवतीं पुरीम् ॥ ३४ ॥
 
१. 'निवासिनप्रमथनाथ' इति मातृकायाम्.