This page has not been fully proofread.

८ सर्गः ]
 
गङ्गावतरणम् ।
 
उपनिपत्य पुरेव पिपासया जिगमिषन्ति न यावदितोऽन्यतः ।
जलधरा इति तावदबिन्धनो हुतवहः किल तानपि जग्रसे ॥ १० ॥
प्रतिनवाम्बुदशीकरसेचनप्रकटितोष्मणि तत्र हि यादसाम् ।
ज्वरमधत्त यथा जलदागमो न तु तथा मधुमासविपर्ययः ॥ ११ ॥
प्रतिनिदाघविरामसमाहितैर्जलधराम्बुभिराहितवृत्तयः ।
 
६१
 
कतिचिदासत कण्ठगतासवो जलपतेः पुरि तोरणवालकाः ॥ १२ ॥
पतिभिया निपतेयुरितोऽद्रयः क्षितितले जगदण्डमितः स्फुटेत् ।
तदनु चावरणोदकमुत्पतेदिति मनोरथमूहुरिह स्थिताः ॥ १३ ॥
प्रियतमाभिगमाय सुदूरतोऽप्युपगताः सरितो जलदागमे ।
तमनवेक्ष्य शुचेव तदास्पदे प्रथम एव पदे विलयं गताः ॥ १४ ॥
क्षितिभृतः कुलिशाहतिकातराः शरणमित्यभजन्त यमर्णवम् ।
स च बभूव कैथा परिशेषितो विधिरां मुखता ननु तादृशी ॥१५॥
कबलितास्तिमिभिः शफरार्भकाः सुखममंसत जीवनतो मृतिम् ।
सलिलशालिषु तद्वदनाध्वसु क्षणपरिक्रमणोत्सवलिप्सया ॥ १६ ॥
वचन भानुसुतादिमहानदीपतनतः शिशिराखिव भूमिषु ।
परिमितानभितस्तनुशोषण जलधरानवलोक्य शुशोच सः ॥ १७ ॥
रविकरोपनिपातविशोषितस्फुटितकर्दमरन्ध्रनिरन्तरम् ।
 
बिलमवेक्ष्य विभाय स वारिधेः सुरनदी सलिलव्ययशङ्कया ॥ १८ ॥
चिरमनेन पथा परुषोष्मणा प्रतिनिशं प्रचरन्नपि चन्द्रमाः ।
कथमहो न कदापि विलीन इत्यसक्कदाकलयन्स विसिस्मिये ॥ १९ ॥
अथ भगीरथदेवपथानुगा सुरनदी तदवाप बिलं भुवः ।
प्रथममावसथादिव वेधसः प्रमथनाथजटागहनोदरम् ॥ २० ॥
सति सरस्वति सन्ति पयोधराः सति तदम्भसि सन्ति च सिन्धवः ।
तदिह काम्बुकथेति विषीदतामभयदेयमजायत यादसाम् ॥ २१ ॥
 
१. 'कथापशेषितो' इति मातृकायाम्. २. सरस्वति = समुद्रे. 'सरखान् सागरोऽर्णवः'
 
इत्यमरः.