This page has not been fully proofread.

६०
 
काव्यमाला ।
 
स्पृष्टः साधय साधयेति लहरीहस्तैरिवान्वक्तया
त्रस्यन्त्या पुरशासनादतिययौ देवः स वाराणसीम् ॥ ५० ॥
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्री मदाच्चा दीक्षित पौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे विश्वेश्वरस्तवो नाम सप्तमः सर्गः ।
 
अष्टमः सर्गः ।
 
समतिलङ्घय पुरीमथ काशिकां स पुरतः प्रचचाल भगीरथः ।
सुरसरिज्जलसंप्लवसंभ्रमक्षुभितजानपदेन पथा शनैः ॥ १ ॥
नरपतेर्दधतीव सहायतां नगरपार्श्वचरी सरयूस्तदा ।
 
पथि पुनः स्वयमेव समागता परिचकर्ष नभःसरितं क्षणात् ॥ २ ॥
अनुसृतः सरितैष पलायते नेनु बलादनया हियते हठात् ।
 
इति नृपः पशुभिः स निसर्गतो निजगदे पथि जानपदैर्जनैः ॥ ३ ॥
पथि चचाल भगीरथदर्शिते सुरनदी नेदमहं स्तुवे ।
 
..
 
पथि तदाचरिते ननु तद्भुवा प्रकृतिमण्डलमेव नियम्यते ॥ ४ ॥
कियदितश्चलितव्यमिति श्रमव्यतिकरादनुयोक्तुमिबोद्यता ।
असकृदस्पृशदूर्मिकराग्रतः प्रचलितं पथि तं पुरतो नदी ॥ ५ ॥
चिरनिरूढमनोरथमालिका सुरनदी दयिताननचुम्बने ।
कलयति स्म मुखानि सहस्रधा सति समीपगते मकरालये ॥ ६ ॥
पथि विलम्ब्य विलम्ब्य पदे पदे गिरिगुहासु निलीय निलीय च ।
उपजगाम कथंचिदुपान्तिकं नववधूरिव नर्मसखस्य सा ॥ ७ ॥
अनशनव्रत कर्शितकुम्भभूसलिलपारण संशयिताम्भसः ।
 
अवततार बिले किल केवले जलनिधेरथ भूमिपते रथः ॥ ८ ॥
तमसि तत्कुहरोपहिते महत्यनुचिता तपनातपसंकथा ।
तपन एव यदि स्वयमापतेद्भवति कज्जलपिण्ड इव क्षणात् ॥ ९ ॥
 
१. मातृकायां 'न न बलादनया' इत्येव वर्तते.