This page has not been fully proofread.

७ सर्गः ]
 
गङ्गावतरणम् ।
 
जटिलोsसि दिगम्बरोऽसि यज्जितकामस्य तदर्हमेव ते ।
गुणगृह्य इतीदमुच्यसे किमपि च्छादय सव्यमङ्गकम् ॥ ४० ॥
स्वयमेव दिशन्मदीप्सितं वह निःश्रेयसदानशौण्डताम् ।
परथापि तदर्पयिष्यते ननु गङ्गामणिकर्णिकादिभिः ॥ ४१ ॥
भुवनत्रयभारवाहिना भवता मे भवितुं न कौतुकम् ।
भवदविसरोजसेविषु प्रमथेष्वेकतरत्वमस्तु मे ॥ ४२ ॥
भवबन्धहरोऽस्मि देहिनामिति विश्राम्यतु वीरघोषणा ।
चतुरो यदि पूर्वमात्मनः लथय त्वं त्रिजगत्कुटुम्बिताम् ॥ ४३ ॥
सति हेमगिरौ शरासने सति वेश्मन्यपि राजते गिरौ ।
भवता शिव भैक्षवृत्तिना क्रमितव्यः समयः कियानयम् ॥ ४४ ॥
 
वहसीन्दुमनेन किं भवेद्भवतो वस्तुषु सारवेदिता ।
भवदादरणात्कपालवद्भवति प्रत्युत तस्य हेयता ॥ ४५ ॥
त्रिपुरेषु परीक्षितं स्मितं मदनो वेद कटाक्षमीश ते ।
ननु नाम जनो जिजीविषुर्बहुमानं भवतोऽर्थयेत कः ॥ ४६ ॥
सकृदत्र समेयुषां नृणां शिरसि स्थापयसे सुरापगाम् ।
अमुमर्थमजानता मया कियदस्यै सरिते कृतं तपः ॥ ४७ ॥
 
५९
 
इति स्तुवन्मुकुटनिवेशिताञ्जलिर्भगीरथः प्रणतशिवंकरं हरम् ।
न्यवर्तत क्षणगमनोपरोधतः क्व जाह्नवी प्रतिचलिता तटादिति ॥ ४८ ॥
अथ नृपमधिरूढस्यन्दनं यान्तमग्रे
सुरसरिदनुयान्ती वीचिभिर्मन्थराभिः ।
विहितजनकुटुम्बा संनिधौ दण्डपाणे-
र्बलवदनुगमेऽपि प्राप्तशङ्केव रेजे ॥ ४९ ॥
आचान्तो नयनैरपक्ष्मवलनैरायम्य पारैर्जनै-
र्धावं धावमुपावरुन्ध्य सरणि सङ्घीभवद्भिः पुरः ।