गङ्गावतरणम् /66
This page has not been fully proofread.
५८
काव्यमाला ।
दिश देवि सुतान्दिश स्त्रियो दिश भोगानिति नार्थयामहे ।
जहिमो वपुरेव गृह्यतां तदिदानीमिति नो मनोरथः ॥ २७ ॥
दिश नः प्रणतैव वाञ्छितं सुरसिन्धो यदि लिप्ससे यशः ।
वपुरन्तमपि प्रतीक्षसे यदि काश्यां पुनरुक्तिरेव ते ॥ २८ ॥
अमृतं हृतवत्यसि ध्रुवं हरकोटीरमृगाङ्कसंगता ।
वयमप्यमृतार्थिनस्ततो भवतीमम्ब चिरादुपास्महे ॥ २९ ॥
वसवो बहवो विनाशिता न च गर्ने विधृतोऽपि षण्मुखः ।
भवतीं सुतनिर्घृणामतो वदितुं मातरिति त्रपामहे ॥ ३० ॥
निगमैस्तव संस्तवो महानपि सर्वज्ञशिरस्यवस्थितिः ।
परिहर्तुम तस्तवौचिती भवमूलं ननु चक्रकाश्रयम् ॥ ३१ ॥
सुखमाख पुरीह याहि वा न पुनर्जातु यतव मत्कृते ।
भवितव्यपरिक्रमैः कचित्सकृदस्मानपि सिञ्च शीकरैः ॥ ३२ ॥
स्वतनूविषयामहंक्रियामपहातुं त्वयि मज्जतां सताम् ।
भुवनत्रयगोचरैव सा पुनरुन्मीलति हा किमद्भुतम् ॥ ३३ ॥
न विमुञ्चसि सावलेपतां ननु मुग्धे शमितापि शंभुना ।
किमपि प्रणतैव देहिनां किमुपारोहसि मस्तकस्थलम् ॥ ३४ ॥
इति जह्रुसुतास्तवोक्तिभिर्मुखरे तत्र मुनीन्द्रमण्डले ।
अवरुह्य भगीरथो रथादगमद्विश्वपतेरुपान्तिकम् ॥ ३५ ॥
शतशः परितोप्य शंकरं प्रणिपातैर्मुदितो भगीरथः ।
सुकुमारतरैः सुगन्धिभिः कुसुमैरर्चयति स्म वाङ्मयैः ॥ ३६ ॥
भव भूतपते विषाशनो भव भिक्षुर्भव भोगिभूषणः ।
तदपि प्रतिपत्तुमर्थये तव सारूप्यविडम्बनामहम् ॥ ३७ ॥
अयि लुब्धकताधिरोप्यतामपि वा भिक्षुकतामिनीयताम् ।
इयतैव किमर्थिनो नरा जहति त्वां कपटैकशिक्षिताः ॥ ३८ ॥
मदनान्तकविष्टपत्रयक्षुधिताह्रादनकङ्कणाङ्कया ।
अपि नोदरमन्नपूर्णया तव पूर्येत विनैव भिक्षया ॥ ३९ ॥