This page has not been fully proofread.

७ सर्गः ]
 
गङ्गावतरणम् ।
 
ननु दृष्टिपथेऽवतिष्ठसे नरनेतुः सखि दूरतो व्रज ।
प्रतिपश्यति सोऽपि चेदितः प्रलयोऽयं ननु पौरयोषिताम् ॥ १४ ॥
अलमेनमुदीक्ष्य निर्दयं सखि सौधादवरुह्यते [मया] ।
त्वमिहाख मनो बहिर्गतं मम चेदेति निरुद्ध्य शंस मे ॥ १५ ॥
 
सरिदन्तरसंगमागसा स्वयमागन्तुमनिच्छतीमयम् ।
महिषीमुदधेरसंशयं मदनोऽयं नयते तदन्तिकम् ॥ १६ ॥
तरुणे शरदिन्दुसुन्दरे तरलापाङ्गवशंवदस्मरे ।
 
कृतमानपरिग्रहाः क्षणं किममुष्मिन्नपि सन्ति योषितः ॥ १७ ॥
अधिगोपय मैनमाशये सहसैवोत्सृज यात्वयं क्वचित् ।
 
ननु चायतपातिभिः शरैर्मदनो मर्मसु ताडयिष्यति ॥ १८ ॥
हिमशैलनिषण्णकिंनरीनयनोपान्तनिपीतशेषितम् ।
 
पिवतां नृपमेनमायतं नयनानां न किमस्ति नस्त्रपा ॥ १९ ॥
अपचित्य रसालपल्लवान्यधिरुह्य स्फटिकस्थलीमपि ।
अवलोकयितव्यमेवमप्ययि मुग्धे किमवेक्षसे हठात् ॥ २० ॥
त्वरयन्नुषिताः सुखेन नः स्वयमेवैनमवेक्षितुं नृपम् ।
प्रहरन्पुनरित्थमाशुगैः प्रसवास्त्रः कथमद्य जीयताम् ॥ २१ ॥
दहतीव विधौ वनप्रिये परुषं जल्पति कुप्यति स्मरे ।
स्वमनस्यपि खेदतापि ते किमयं निष्फलमीक्ष्यते चिरम् ॥ २२ ॥
इति कर्णपुटेन पार्थिवः कलयन्पौरविलासिनीगिरः ।
प्रचचाल तदा शनैः शनैः परिपश्यन्पुररामणीयकम् ॥ २३ ॥
 
तनया इव मातरं चिरादुपयातामुपगम्य जाह्नवीम् ।
प्रमदाद्भुतभक्तिशालिनो मुनयो वाग्भिरथोपतस्थिरे ॥ २४ ॥
अपहर्तुमुपायतो विधेर्जननिर्माणमहाधिकारिताम् ।
वितनोषि जनानजन्मनो यदसि प्रागमुनैव यन्त्रिता ॥ २५ ॥
 
वितरिष्यसि काङ्क्षितानिति त्वयि विश्वासमवानुमः कथम् ।
अपसृत्य वपुर्वपुष्मतां ननु तेभ्यो न ददासि तत्पुनः ॥ २६ ॥
 
गङ्गा० ६