This page has not been fully proofread.

५६
 
काव्यमाला ।
 
सप्तमः सर्गः ।
 
अथ संनिहितं भगीरथं सरितं तामपि तद्र्थानुगाम् ।
अवलोकितुमिच्छतां नृणामतुलस्तत्र बभूव संभ्रमः ॥ १ ॥
अगृहीतविवेकमापणानुपसंहृत्य सवेगमेकतः ।
 
पथिकान्वणिजोऽन्वयुञ्जत क नु सा सिन्धुरिति प्रतिक्षणम् ॥ २ ॥
स्थविरेषु गतेषु जाह्नवीसलिलोत्पीडभिया ततस्ततः ।
क्षणमध्ययनोपघाततः परितुष्टा बटवो विजहिरे ॥ ३ ॥
प्रलयेष्वपि ये न शिक्षिताश्चिरमानन्दवनीनिवासतः ।
मुनयः किल ते चिरायुषः सुरसिन्धूर्मिषु विस्मयं दधुः ॥ ४ ॥
चरमं ववृषे भगीरथः शिशिरैरत्र नदीपयः कणैः ।
पुरतस्तु तदा पदे पदे पुरयोषित्करलाजमुष्टिभिः ॥ ५ ॥
पथि दिव्यनदीभगीरथौ प्रचलन्तौ शनकैः सविभ्रमम् ।
अवलोक्य शिरोगृहस्थिता हरिणाक्ष्यो विदधुर्मिंथः कथाः ॥ ६ ॥
 
स्खलनात्कचिदुन्नते पथि स्तिमितं पश्य रथं क्षिपन्त्यमी ।
रभसाहतचक्रमण्डला रथदण्डा इव हुजोर्मयः ॥ ७ ॥
पतितामिह कर्णिकां चिरात्प्रतिलप्यार्पयितुं महेशितुः ।
किमियं मणिकर्णिकासरस्यवगाढा सरिदारसातलम् ॥ ८ ॥
सखि कर्षसि किं भगीरथं नयनैः प्रान्तनिविष्टतारकैः ।
अदसीयरथानुपातिनी ननु मुग्धे सुरसिन्धुरेप्यति ॥ ९ ॥
तमनुप्रहिणोषि किं दृशौ सखि नेमे पुनरागमिष्यतः ।
ननु चोपदिशाम एव ते प्रथमं तेन वयं प्रतारिताः ॥ १० ॥
इयदुच्चलितापि जाह्नवी न किमप्याहरतिस्म वस्तु नः ।
अनुमातु मृषातपखिना हृदयस्थैव हृता गभीरता ॥ ११ ॥
इयमप्यपरा वराकिका दृगिवास्माकममर्त्यवाहिनी ।
अनुगच्छति तत्र तत्र तं पुरतो गच्छति यत्र यत्र सः ॥ १२ ॥
अवसन्तममन्दमारुतं जगदेनज्जयतो नृपादितः ।
स्वयमेव सखि स्मरः स्वयं शरचापावपि नाम संन्यसेत् ॥ १३ ॥