This page has not been fully proofread.

५४
 
काव्यमाला ।
 
भिन्दन्तमद्रीन्सरसीर्विशन्तं व्यापाटयन्तं च वनान्तराणि ।
प्रवाहमस्या नयति स्म यत्नाद्भगीरथो मत्तमिव द्विपेन्द्रम् ॥ ४६ ॥
अन्योन्य संभेदसमुच्छ्रितासु कल्लोलरेखासु कदाचिदस्याः ।
भूयः खलोकाक्रमसाध्वसेन दूरे सुरा दुद्रुवुरन्तरिक्षे ॥ ४७ ॥
स्वर्गादमर्त्यानवरोपयन्ती खच्छन्दतादुर्ललितैस्तरङ्गैः ।
 
मर्त्यानपि खाम्भसि मग्नमात्रान्दिवं नयन्ती विजहार गङ्गा ॥ ४८ ॥
विन्ध्यो गिरिः कुम्भजकोपभीतो गङ्गा च जहुग्लपितावलेपा ।
शङ्के समानव्यसनाविवेमौ समीयतु सविधेऽथ काश्याः ॥ ४९ ॥
भत्त्या परित्यज्य गतिं सगव भक्तं पुरस्कृत्य भगीरथं च ।
विवेश विश्वेशितुरन्तिकं सा जानाति येनास्य जटाप्रभावम् ॥ ५० ॥
त्यक्तावशिष्टं कियदम्बु गाङ्गं सारूप्यभाजां कतमेन लभ्यम् ।
 
इत्थं सचिन्ते सति विश्वनाथे काशीमयासीदियमिङ्गितज्ञा ॥ ५१ ॥
त्रय्यन्तसिद्धाञ्जननिर्मला क्षैस्तपोधनैरप्यनवेक्षितं यत् ।
 
आलक्ष्यते धाम तदेव यस्यामात्यन्तिकेनाक्षिनिमीलनेन ॥ ५२ ॥
यामभ्युपेताः परया समृद्ध्या भिक्षाशिनो दिग्बसना भवन्ति ।
यामावसन्तो भववन्धमुक्त्यै देहार्ध एवाकलयन्ति दारान् ॥ ५३ ॥
भस्माङ्गरागाः शिरसः कपालं पात्राय माल्याय च जालमस्नाम् ।
जना यूदीयाः पुनराददानास्तनुं त्यजन्तीव न तु त्यजन्ति ॥ ५४ ॥
आतन्वतीमुज्झिततारतम्यमाब्रह्मकीटं जगदेकरूपम् ।
यामप्रबुद्धा इव पण्डिताश्च श्रेयः किमासादयितुं श्रयन्ते ॥ ५५ ॥
सारूप्यंभाजो बहवोऽत्र शंभोश्चत्वारि वॠाणि पुनर्विधातुः ।
एकेन चैकं लवितव्यमित्थं प्राप्ते गतिः केति भणन्ति यस्याम् ॥ ५६ ॥
प्राङ्मजयन्ती सलिलावलेपात्प्राप्तं पुरो यं कमपि द्युसिन्धुः ।
तस्मिन्महेशे पुनरवगेव यस्यां परित्रस्यति तज्जटाभ्यः ॥ ५७ ॥
पठन्ति यस्यामथ पाठयन्ति प्राज्ञाः शतं निर्मिमिते कृतीश्च ।
अस्थीन्यपूतान्यहयो न धार्या भोज्यं विषं नेति तु नावयन्ति ॥ ५८ ॥
आसाद्य यत्राक्षरमेकमीशात्प्राणैर्विमुच्यार्धपथं प्रपन्नैः ।