This page has not been fully proofread.

६ सर्गः ]
 
गङ्गावतरणम् ।
 
एतावदायस्यसि किं वृथैव जहो सकृन्मज्ज जले मदीये ।
स्वर्गे च याहीत्यनुगृह्णतीव तं मज्जयामास तरंगिणी सा ॥ ३४ ॥
सुराः पुरोडाशचरुध्रुवाज्यस्त्रीकारसातत्यगतक्षुधोऽपि ।
उदन्यया केवलमर्दिताः किमाकर्णमम्भः पपुरभ्रसिन्धोः ॥ ३५ ॥
पुरा पतन्ती मुकुटे पुरारेलेंभे फलं या किल दुर्विनीतेः ।
भूयोऽपि सैवापचकार जह्नोः कुतः प्रकृत्या कुटिलोपशाम्येत् ॥ ३६ ॥
यामापतन्तीं महता रयेण संरभ्य तावजगृहे महेशः ।
 
तां लीलयैवापिवति स्म जह्नुस्ततोऽप्युदमा ननु तं प्रपन्नाः ॥ ३७ ॥
क्वायं मुनिः क्षत्त्रकुलप्रसूतः व सा नदी शंभुजटैकधार्या ।
ग्रस्तामुना सैव यदि क्षणेन केनाधिगम्यस्तपसां प्रभावः ॥ ३८ ॥
राजर्षिरेको विचंकर्ष गङ्गामन्यः पुनस्तां कवलीचकार ।
ब्रह्मर्षिभिर्धिग्धिगितः परं वा संन्यस्यतां किं नु तपोभिमानः ॥ ३९ ॥
जातैव नीता विबुधैरियं द्यां शप्ता निरुद्धापि च वेधसा स्याम् (?) ।
ग्रस्ता शिवेनाप्यथ जह्नुना च कस्मिन्क्षणेऽजायत न प्रतीमः ॥ ४० ॥
कन्या तवेयं भवितेति देवैर्याचे मुने त्वामिति तेन चोक्तम् ।
जहुर्जही कर्णपुटेन गङ्गां कर्णाहते यच्छतु काङ्क्षितं कः ॥ ४१ ॥
रुद्धा चिरं यच्छुतिसेतुमध्ये बद्धा चिरं यच्च जटासु शंभोः ।
सा निर्ययौ वासनया तथैव विशृङ्खलं कर्णपुटान्महर्षेः ॥ ४२ ॥
तां जहुकोपाद्व्यसनं प्रपन्नां कालाद्वहोः क्षोणितलेऽवतीर्णाम् ।
नद्योऽनुरक्ता इव तत्र तत्र तरङ्गहस्तैर्दृढमालिलिङ्गुः ॥ ४३ ॥
गच्छन् पुरस्तस्य रथो यथेच्छं गङ्गा च पश्चात्तमनुव्रजन्ती ।
प्रायेण धाटीग्रहणप्रसक्तौ बालावुभौ केलिपराविवास्ताम् ॥ १४ ॥
प्रवर्तते पावयितुं प्रदेशं यं यं नदी सा पुर एव तस्याः ।
तं तं पुनन्तः स्वयमूर्भिवातास्तस्यै ददुर्नावसरं कदाचित् ॥ ४५ ॥
 
५३
 
१. स्वर्वीचिशीकरासारचारसमीरकिशोरसंस्पर्शनेन निजदर्शनेन चाशेषकिल्बिषविशो-
षणात्केवलं सकलजन देह निर्णेजनमात्रलम्भितफलसलिलाम्' इति धर्मविजये दृश्यते.