This page has not been fully proofread.

VOJ
 
५२
 
काव्यमाला ।
 
ये शुश्रुवुर्गर्वकिरो गिरः खास्तेष्वेव पश्यत्सु सुधाशनेषु ।
ह्रीणेव निर्गन्तुमवाङ्मुखी सा ततोऽपतद्विन्दुसरस्युदारे ॥ २१ ॥
तान्येव यादांसि महाद्भुतानि ता एव पर्याप्तदिशो लहर्यः ।
पेतुः कपर्दात्पुनरिन्दुमौलेर्गर्वोक्तयस्ताः क गता न विद्मः ॥ २२ ॥
तामापतन्तीमवनौ कपर्दादाकुञ्चितादीषदिवेन्दुमौलेः ।
 
दूरादमन्यन्त विलम्बमानां मालामिव द्रोणमयीममर्त्याः ॥ २३ ॥
सा तत्र सिन्धुः सरसि क्षरन्ती स्रोतांसि सप्त स्वयमाबभार ।
त्रिभिः प्रतीचीदिशमाववार त्रिभिश्च सा तैर्दिशमिन्द्रगुप्ताम् ॥ २४ ॥
आमन्त्र्य मूर्ध्ना प्रणतेन शंभुमारुह्य च स्यन्दनमग्रतस्तम् ।
संप्रस्थितं पार्थिवमन्वयासीत्स्रोतः परं कीर्तिरिवास्य मूर्ता ॥ २५ ॥
गङ्गोर्मिभिर्मन्दमनुप्रवृत्तैर्गच्छन्पुरस्तादथ तच्छताङ्गः ।
आकृप्यमाणामलशृङ्खलस्य गन्धद्विपस्यापजहार शोभाम् ॥ २६ ॥
क्वचित्पतन्ती क्वचिदुत्पतन्ती क्वचिच्च यान्ती चिरमुत्पथेन ।
सा तत्र चण्डीशजटावनान्ते संभ्रम्य दिङ्मोहवतीव रेजे ॥ २७ ॥
पादे पतन्ती परितः स्पृशन्ती गात्राणि पर्यङ्कतले लुठन्ती ।
कालाद्वहोरुत्कलिकावतीव कामं गुरोः सा विजहार पार्श्वे ॥ २८ ॥
दृष्टानि कौमारविहारकाले दृश्यानि नीहारगिरेस्तटानि ।
द्रष्टुं चिरात्कौतुकशालिनीव सा सर्वतस्तत्र समारुरोह ॥ २९ ॥
ग्रस्तोदकायां मयि शंकरेण किं नाम मह्यं कृतवानसि त्वम् ।
नाहं सुता ते न गुरुर्मम त्वमिति क्रुधेवाथ जहौ हिमाद्रिम् ॥ ३० ॥
अथाद्रिशृङ्गादवतीर्य भूमौ सा तत्र मन्दं सरिदुच्चलन्ती ।
आरब्धयज्ञस्य जगाम जहोरभ्यर्णमालोकितुमादृतेव ॥ ३१ ॥ ७
मौलौ निवासादमृतांशुमौलेर्दक्षाध्वरध्वंसदृढव्रतस्य ।
 
B
 
संक्रान्ततद्द्वीतिरिवाभ्रगङ्गा जहोरवध्वंसयति स्म यज्ञम् ॥ ३२ ॥
मदुर्भिवेगापहृताः सुराश्च कियत्कियद्यत्र हविर्लभन्ते ।
 
किं तत्र नार्है ग्रसितुं ममेति जग्राह सर्वे हविरभ्रगङ्गा ॥ ३३ ॥