गङ्गावतरणम् /59
This page has not been fully proofread.
६ सर्गः ]
गङ्गावतरणम् ।
५१
आद्यं विदुः साधनमर्थसिद्धेरसंभ्रमं कार्यविपर्ययेऽपि ॥ ७ ॥
कल्पावसानेषु चतुर्दशापि जगन्ति यत्र त्वयि संविशन्ति ।
तत्रैकवेधोगृहदीर्घिकेयं लीना वराकी यदि का स्तुतिस्ते ॥ ८ ॥
कियन्ति पीतानि विधेः कपालैः कियन्ति वेगादवनौ निपेतुः ।
कियन्ति केशेष्वपि लिल्यिरे ते गङ्गोदकानीति कुतः स्मयस्ते ॥ ९ ॥
दिष्टया निपीता भवता नदीयं शक्त्या न तस्यास्त्वयि कः प्रसङ्गः ।
शङ्खाम्बु दत्तं कियदेव भक्तैः सहस्रधारं ननु मन्यसे त्वम् ॥ १० ॥
सह्यानि चूडोरगफूत्कृतानि सह्याश्च गौरीचरणप्रहाराः ।
तज्जानती नाथ जटापदे ते तस्थौ न गङ्गा स्वयमेव नूनम् ॥ ११ ॥
आस्तां हिमाद्रौ श्वशुरेऽनुवृत्तिरास्तां च भक्ते मयि तेऽनुकम्पा ।
चण्डी न दृश्या भगिनीवियोगशङ्काकुला किं ग्रसताभ्रगङ्गाम् ॥ १२ ॥
अस्त्वेवमासीद्यदि ते कपर्दिन्गर्भो जगद्भिस्त्रिभिरप्यपूर्णः ।
मूर्ध्नापि किं ते भवितव्यमेव गङ्गापि यस्य स्रूपनाथ नालम् ॥ १३ ॥
अभ्यर्थये त्वामथवा न गङ्गां कस्त्वं गृहीतुं पुनरुज्झितुं वा ।
स्तोप्यामि ता एव जटास्त्वदीया याभिर्निपीता कणवन्नदी सा ॥ १४ ॥
जटा नमो वश्चिरसंप्ररूढां रुवा पिपासामियतीं स्थिताभिः ।
युष्माभिरालिह्यत नान्तिकेऽपि दिष्ट्या पयोमण्डनिभोऽयमिन्दुः ॥ १५ ॥
जटा ललाटानलतापितानां पानोदकं किं नु वियन्नदी वः ।
यच्च न्यगीर्यन्त पदेपदेऽपि पयांसि तस्याः स किमूपदंशः ॥ १६ ॥
पीतं पयो बह्विति मा बिभीत भविष्यथ स्वस्थतराः पुरेव ।
चण्डीशमत्तभ्रमणेन यूयं सद्यः समुद्वान्तजला दिनान्ते ॥ १७ ॥
भक्तार्पिताभिः कियतीभिरद्भिः कालो महान्येन कपर्द नीतः ।
स त्वं समासाद्य च तावदम्बु भूयोऽपि किं प्रागिव भिक्षुकोऽभूः ॥१८॥
इत्थं चमत्कारतरङ्गिताभिस्तुतोष तस्य स्तुतिभिर्महेशः ।
साहित्यमर्मावगमे क्षमेत सर्वज्ञमीशं तमृते परः कः ॥ १९ ॥
मोक्तुं नदीमानमनानभिज्ञं मूर्धानमीशो नमयांबभूव ।
भक्तैकरक्षात्रतदीक्षितानां दूरे खमानद्रढिमाभिमानः ॥ २० ॥