गङ्गावतरणम् /58
This page has not been fully proofread.
.५०
काव्यमाला ।
अक्लिष्टपन्नगमजर्जरितेन्दुरेख-
मव्यस्तकाशकितवस्तबकाचतंसम् ।
शंभोरदृश्यत शिरः सुरसिन्धुमुक्त-
॥ दिव्यद्रुमप्रसवसौरभसारसान्द्रम् ॥ ६६ ॥
प्रणमदमरग्रामप्रस्तूयमान महास्तव-
स्तबकितगुहामूलाः कैलासशैलतटास्तदा ।
प्रशमितवियद्गङ्गाहंकारसंकथनादृत-
प्रमथपरिषच्छन्नाः किं नाम नादधतेऽद्भुतम् ॥ ६७ ॥
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्यचतुरधिकशतप्रबन्ध-
निर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षित पौत्रेण
नारायणदीक्षितात्मजेन श्रीनीलकण्ठदीक्षितेन विरचिते
गङ्गावतरणे गङ्गावतारो नाम पञ्चमः सर्गः ।
षष्टः सर्गः ।
ततो जटाभिर्गिरिशस्य पीते तावत्यपि स्रोतसि देवसिन्धोः ।
भगीरथोऽपि प्रमथैः सहैव विसिस्मिये प्रागथ विव्यथे च ॥ १ ॥
तुष्टो विरिञ्चः प्रससाद शंभुर्लब्धा च गङ्गा फलितं किमेतैः ।
आराधनीयं वलयं जटानामज्ञासिषं येन न लेशतोऽपि ॥ २ ॥
संध्यासु दिष्ट्या यदि नृत्यतोऽस्य संशीर्य या कापि जटापतिप्यत् ।
कल्पान्तसंभेददुरुत्तरापि सप्तार्णवी क्वेव तदाभविष्यत् ॥ ३ ॥
आभाप्य गङ्गामवतार्य तामप्यासादिता येन न कार्यसिद्धिः ।
सोऽहं विलज्जः पुनरद्य तस्याः संजीवनायैव कथं यतिष्ये ॥ ४ ॥
निर्विद्य किंचिन्नृपतिस्तदैवं धैर्य परं धारयति स्म भूयः ।
नायं गुणोऽस्य प्रकृतिर्यदेषा चुक्षोभ किंचिद्यदसौ स दोषः ॥ ५ ॥
समानयेयं पुनरभ्रगङ्गां संपादयेयं यदिवापरां ताम् ।
तदस्ति किं यत्तपसामसाध्यमिति प्रपेदे पुनरिन्दुमौलिम् ॥ ६ ॥
प्रसादयामास भगीरथस्तं वाग्भिः पुरेवात्वरितो महेशम् ।
१. 'वाक् पुरेवावरितो महेशम्' इति मातृकायाम्.