This page has not been fully proofread.

५ सर्गः ]
 
गङ्गावतरणम् ।
 
केयमार्द्रयति मस्तकं गुरोस्त सेय निखिलाममूमिति ।
किंचिदुच्छ्रितकरे गजानने हुंकृतान्यकृत सत्रपं शिवः ॥ ५५ ॥
वीचिमारुतवितीर्णपारणामांसलाः शिवकपर्दपन्नगाः ।
संप्रसार्य फणमापदस्ततः संररक्षरमृतांशुरेखिकाम् ॥ ५६ ॥
अप्रतर्क्यमसमीक्षितावधिं तं कपर्दवलयं पिनाकिनः ।
 
आपगा दिविषदामवाङ्मुखी पन्नगीव कलशं समाविशत् ॥ ५७ ॥
तज्जटासु विशती वियन्नदी सा कियत्पथमदृश्यतामरैः ।
शुश्रुवे तदनु तज्जलारवो यस्य किंचिदपलभ्यते ततः ॥ ५८ ॥
तज्जटापटलकन्दरोदरखीकृताः सुरनदीमहोर्मयः ।
 
४९
 
लेशतोऽपि किल नाललक्षिरे सत्क्रिया इव कृतघ्नगोचराः ॥ ५९ ॥
मूर्ध्नि तस्य मुहुराहितभ्रमा प्राप सा न पदवीं निवर्तितुम् ।
दुर्लभं ननु जगत्सु देहिनां तं प्रविश्य विनिवर्तनं पुनः ॥ ६० ॥
अभ्यषिञ्चदमरापगा शिवं यच्छ्रुतिव्यतिकरानघैर्जलैः ।
 
तेन किं नु सुकृतेन भूयसा तत्क्षणाल्लयमवाप तत्र सा ॥ ६१ ॥
तापितासु नयनाग्निहेतिभिस्तज्जटासु पतितास्तदूर्मयः ।
अम्भसां पुनरतिप्रबन्धतः क्लेदमात्रमदिशन्कथंचन ॥ ६२ ॥
जातमित्यथ समीपवर्तिना नन्दिना सविनयं निवेदिते ।
सव्यपाणिविधुता जटाः पुनः शंकरः परिबबन्ध पन्नगैः ॥ ६३ ॥
कपर्दममरापंगासलिलसेकसान्द्रीकृतं
 
विधुन्वति सविभ्रमं पशुपतौ विकीर्णास्ततः ।
क्वचित्सुरपुरंध्रयः क्वचन यक्षविद्याधराः
 
क्वचिच्च परमर्षयः समवलन्त संमूर्च्छिताः ॥ ६४ ॥
 
यावद्ध्योमविटङ्कसंकुलचलत्कल्लोलकोलाहलै-
रायाभीमवधारयन्दुहितरं प्राप्तस्तुषाराचलः ।
तावत्पीतसुरापगोदकपुनर्व्याधूतसंदानिताः
 
संमृष्टाश्च पटाञ्चलेन शिवया शंभोरपश्यजटाः ॥ ६५ ॥