This page has been fully proofread once and needs a second look.

४८
 
काव्यमाला ।
 
आदिभिक्षुगृहिणीं यवीयसीं सा समाजयितुमुद्यता दिवः ।
 

आजहार विविधानि भूषणान्यम्बराणि च महेन्द्रमन्दिरात् ॥ ४२ ॥

मुक्तदिव्यतरुपुष्पवृष्टयः श्लाघनोक्तिमुखराश्च सर्वतः ।

हृता लहरिमारुतैस्तथा सिद्धचारणगणाः सहाययुः ॥ १३ ॥
 

उद्गताभिरितरेतराहतादूर्मिभिः सुरगणः समुच्छ्रितः ।

आसदत्सदनमेव वेधसः को न तच्छ्यति तज्जलाप्पुलुतः ॥ ४४ ॥

वीचिवेगपरितुष्टसंपतत्पाकशासनपताकिनीसखी ।

योद्धुमुद्यतवतीव वाहिनी सा जगाम सविधं महेशितुः ॥ ४५ ॥

आ विरिञ्चिगृहमा हिमाचलं निर्मला रुरुचिरे तदूर्मयः ।

स्वर्वधूभिरभितो दिदृक्षया पातिता इव कटाक्षरेखिकाः ॥ ४६ ॥

प्राप्य शंकरकपर्दकन्दरं संभ्रमन्निह तदुर्मिमारुतः ।
 

क्रोशति स्म सुरसिन्धुमुद्यतां मा पतेति विनिवारयन्निव ॥ ४७ ॥

सानुरागबहुमानमानतां सा शिवामभिकपार्श्ववर्तिनीम् ।

एकया किल तरङ्गरेखया पाणिनेव मृदुलं परामृशत् ॥ ४८ ॥

तत्प्रवाहमुखवल्गदूर्मिकाशीर्णशीकरसमुत्थितास्तदा ।

ताडिता इव महोपलैस्ततो दूरदूरममरा विदुद्रुवुः ॥ ४९ ॥

कोपलेशपरुषैरवज्ञया कूणितैरपि विलोचनाञ्चलैः ।

पश्यति स्म पतनोन्मुखीं नमीनीषदुन्नमितकन्धरो हरः ॥ ५० ॥

यावदानमयते यथापुरं द्रष्टुमुन्नमितमीश्वरः शिरः ।

तावदेव निपपात तत्र सा विस्मयाय मितां दिवौकसाम् ॥ ५१ ॥

शापकोपकलुषेव सा विधिं संनिमज्ज्य सुचिरं विनिर्गता ।

तत्कपालमपि शांभवे शिरस्याजधाघान परुषाभिरूर्मिभिः ॥ ५२ ॥

तस्य पञ्चमशिरोनिपातनादर्धदुर्मरणमापपात यत् ।
 

पातकं परिजहार तद्भवं पावनेन पयसा वियन्नदी ॥ ५३ ॥

तज्जवादुपहृतं दिवौकसां तस्य मूर्धनि विमानमण्डलम् ।

वेत्रदण्डवलनेन नन्दिनो दिङ्मुखेषु निपपात दूरतः ॥ ५४ ॥