This page has been fully proofread once and needs a second look.

५ सर्गः ]
 
गङ्गावतरणम् ।
 
पाकशासनपुराभ्रये पदे खेस्वेच्छया विहरतां सुधान्धसाम् ।'

आगतं प्रलयमाचचक्षिरे जाह्नवीजलझलज्झला रवाः ॥ २९ ॥

संभ्रमोपगतचारशंसितस्वर्गसिन्धुपतनं पदे पदे ।

सौधशृङ्गवलभीनिवेशितस्वस्मूलधनमप्सरोजनैः ॥ ३० ॥

मन्दुरोदरविमुक्तविद्रवत्सैन्धवानुचरसादिमण्डलम् ।

दिक्तटोच्चलित जाङ्घिकामरखीस्वीकृताभ्रककुलं गृहे गृहे ॥ ३१ ॥

निर्गतत्रिदशनाथदर्शनस्तव्ब्धविद्रवदनीकिनीभटम् ।

इत्थमाकुलमतर्कितागता सा चकार नगरं शचीपतेः ॥ ३२ ॥
(त्रिभिस्तिलकम्)
 
४७
 

संपपात हरिनीलदन्तुरे वैजयन्तशिखरे समन्ततः ।

सा ततो विदधतीव संस्तवं मस्तके निपतितुं महेशितुः ॥ ३३ ॥

सर्वतः प्रचलितैः कणात्मना सौधशृङ्गपतितैस्तदम्बुभिः ।

संगतो न समलक्ष्यत क्षणं निर्मलः सुरपतेर्मदावलः ॥ ३४ ॥

वैजयन्तविनिपातवेगतो दूरमुत्पतति तत्पयोभरे ।

छत्रगर्भनिहितेव सा पुरी नाजनि क्वचिदपि क्षतोदरा ॥ ३५ ॥

प्राप्य सानुपदमेव मेदिनीं यं यमम्भसि निमज्जयिष्यति ।

तं तमत्र विनिधातुमेव किं त्रायते स्म निपुणं त्रिविष्टपम् ॥ ३६ ॥

सा ततः प्रचलिता समन्ततो व्यानशे निरवशेषमम्बरम् ।

संविभक्तपरभागसुन्दरी चन्द्रिकेव शरदागमोज्ज्वला ॥ ३७ ॥

सा दिवि प्रमथनाथकुन्तले संभ्रमद्विमलवीचिमण्डला ।

तर्क्यते स्म चतुरैः सुधाशनैर्मालिकेव नवमल्लिकामयी ॥ ३८ ॥

व्योम्नि तल्लहरिवल्लरीहृता ये सुराः सुरगजाश्च केचन ।
 

ते तदीयजलजन्तवो न चेत्को नरः पयसि कश्च सिन्धुरः ॥ ३९ ॥

तज्जलभ्रमिभिराहितभ्रमा नन्दनोपवनपादपास्तदा ।

संप्रहर्तुमसमेक्षणं तया भ्रामिता इव गदा विरेजिरे ॥ ४० ॥

निम्नभागविनिपातसंभृता निस्तला रुरुचिरे जलभ्रमाः ।
 

गङ्गयां निगमसेतुसंस्तवादार्जिताः प्रणवमण्डला इव ॥ ४१ ॥