This page has been fully proofread once and needs a second look.

४६
 
• काव्यमाला ।
 
स्थापिताः कमलजन्मना पुरा सेतवः श्रुतिमयाः समन्ततः ।

संनिपत्य सकृदेव सप्लुतैरूर्मिभिस्त्वरितमुल्ललङ्घिरे ॥ १६ ॥

प्राणिनां प्रतियुगान्तमर्णवैर्यामकल्पयत पद्मभूर्दशाम् ।
 

सैव तस्य फलिता तदा तया कर्मणः क इव नाश्नुते फलम् ॥ १७ ॥

प्राप्य जानुमतिलङ्घय नाभिमप्यम्भसि क्षणमथास्य संमिते ।
क्रन्दतामशरणं तपस्विनां शुश्रुवे कलकलान्वितं वचः ॥ १८ ॥

सर्वतः सुरतरङ्गिणीजलैः संप्लुते सदसि तत्र वेधसः ।

प्राणसंयमनशिक्षया परं मज्जिता न कतिचिन्महर्षयः ॥ १९ ॥
वक्

वक्त्
रसौधवलभीगता विधेः शारदापि सहसोत्थिता सती ।

उद्गृहीतकरपुस्तका भयादक्षिपद्युगमिव क्षणं क्षणम् ॥ २० ॥

विश्वसर्गचतुरोऽपि पद्मभूर्न प्रतिव्यधित तत्र किंचन ।
खै

स्वै
रमस्तु कुशलः परापदि खास्वापदि त्वकुशलोऽखिलो जनः ॥ २१ ॥

सत्यलोककुहरक्षणासिकासंकटा क्षमतयेव तत्क्षणम् ।

निर्जगाम परितस्ततो बहिस्तन्निसर्गनिरवग्रहं पयः ॥ २२ ॥

गाधभाजि गतविक्रियं जले सस्मितं तदनु नाभिमात्रके ।

सोक्तिगुम्फमपि दर्शितस्थले वक्त्रमण्डलमधाच्चतुर्मुखः ॥ २३ ॥

तारिता वयमिमां महापदं तावकादिह तपोबलादिति ।
 

स स्तुतः परिजनेन लज्जितः कः स्तुतेरपि वधोऽभिषङ्गिणः ॥ २४ ॥

फेनिलाः सलिलशोषरेखकाः सर्वतः सदनभित्तिपर्वसु ।

आयतश्सितमानमन्मुखं पश्यति स्म स दृशातिदीनया ॥ २५ ॥

नाजपं किमिति मन्त्रमानलं नासृजं किमिति चाभितस्तटीः ।

इत्यखिद्यत विधिर्गते जले सा किल प्रकृतिरग्रजन्मनाम् ॥ २६ ॥

आननैर्हसितबाप्ष्पकर्वुरैरद्य जीवितमिवेति वादिभिः ।

दोर्भिरप्यधिकदूरचालितैरालिलिङ्ग मुनिमण्डलं मिथः ॥ २७ ॥
 

सत्यलोकमपहाय निश्चिते गन्तुमिन्द्रपुरमभ्रगङ्गया ।

धावयन्पथि जनान्पुरो ययौ वेत्रपाणिरिव वीचिमारुतः ॥ २८ ॥