गङ्गावतरणम् /53
This page has not been fully proofread.
५ सर्गः ]
गङ्गावतरणम् ।
गिरः ॥ ३ ॥
सा निवेदयितुमात्मनिर्गमं सन्निकर्षमुपजग्मुषी विधेः ।
व्याजहार विनयावधीरणव्यक्तगर्वगरिमोप्मला
अस्ति नन्वयमयुग्मलोचनः स्फाटिकाचलचरो बनेचरः ।
धर्तुमिच्छति स नाम मामकं त्वत्परीक्षितमहारयं पयः ॥ ४ ॥
स प्रकामजरठो गुरुः पिता सा च मुग्धहृदया यवीयसी ।
व्याहतो यदि न मे समुद्यमः कः शिवः क इव राजतो गिरिः ॥ ५ ॥
त्वगृहे स्थितवती चिरादहं त्वामनेन परितोषये ततः ।
त्वच्छिरोलवनकर्म दुर्मदं संनिपात्य गिरिशं रसातले ॥ ६ ॥
सावलेपनिपतन्मदूर्मिता संप्लवैककवलीकृतो हरः ।
संगतः पयसि शङ्खशुक्तिभिर्नन्दिना ननु गवेषयिष्यते ॥ ७ ॥
कालकूटमिव मन्यते शिवो मामकं प्रकृतिदुर्मदं पयः ।
ब्रूहि तावदधुनापि मेति तं मा विषीदतु यवीयसी पुनः ॥ ८ ॥
शङ्कितो जगदकाण्डविप्लवाद्याचते यदि भवानथापि माम् ।
तं मदम्बुवहनातिमानिनं कंचिदेव शमयामि नापरम् ॥ ९ ॥
कर्णयोर्यदि पतेयुरन्ततो गर्जितानि चलतां मदम्भसाम् ।
तत्त्वतः कथय किं भवेच्छिवस्त्वं हि तन्महिमलेशवेदिता ॥ १० ॥
इत्थमुद्धतमुदीर्य सा विधिं संगतानपि सुरानभाषत ।
मा परित्रसत मामकं पयो लज्जते बलपराक्रमाय वः ॥ ११ ॥
यात यूयमपयात च क्षणं देवता निजनिजालयांस्ततः ।
कौतुकं तु यदि वोऽस्ति वीक्षितुं कोणमावसत निर्भया दिशाम् ॥१२॥
त्रासिताः किल तयैवमुक्तिभिः पार्श्वमापुरमराः पिनाकिनः ।
कस्य नाम न तथाविधा गिरः क्षोभयेयुरपि चाश्मनं मनः ॥ १३ ॥
उद्यतान्गदितुमापगागिरः स्तम्भितानथ निजेन तेजसा ।
आकलय्य नयनाञ्चलैः सुरानन्तरस्मयत चन्द्रशेखरः ॥ १४ ॥ ॥
संनिवृत्य सदसस्ततो बहिः क्रोधमन्थरविसंस्फुटैः पदैः ।
आविवेश सरसीं ततो नु तामापगापि जगदाक्रमोद्यता ॥ १५ ॥ :
गङ्गा० ५
४५